________________
श्रीशिवराजविनिर्मितो
अथ यमलविशेषः ।
एकस्मिन्वत्सरे चैकवासरे मण्डपे तथा । कर्तव्यं मङ्गलं स्वस्रोर्भ्रात्रोर्यमलजातयोः ॥ १ ॥ मेधातिथि: - पृथङ्मातृजयोः कार्यो विवाहचैकवासरे । एकस्मिन्मण्डपे कार्यः पृथग्वेदिकयोस्तथा ॥ २ ॥ पुष्पपट्टिकयोः कार्य दर्शनं न शिरस्थयोः । भगिनीभ्यामुभाभ्यां च यावत्सप्तपदी भवेत् ॥ ३ ॥
इति समानक्रियाविचारः ।
१६२
अथ प्रत्युद्वाहनिषेधः ।
नारद:-- - प्रत्युद्वाहो नैव कार्यो नैकस्मै दुहितृद्वयम् । नचैकजन्ययोः पुंसोरेकजन्ये तु कन्यके । नैत्रं कदाचिदुद्वाहो नैकदा मुण्डनद्वयम् ॥ १ ॥ अन्यच्च --- एकजन्ये तु कन्ये द्वे पुत्रयोकजन्ययोः । न पुत्रीद्वयमेकस्मै प्रदद्यात्तु कदाचन ॥ २ ॥
इति प्रत्युद्वाहनिषेधः ।
अथ प्रतिकूलविचारः ।
गर्गः कृतेऽपि निश्चये पञ्चान्मृत्युर्मर्त्यस्य कस्यचित् । तदा न मङ्गल कुर्यात्कृते वैधव्यमाप्नुयात् ॥ १ ॥ मेधातिथिः - वधूवरार्थं घटिते सुनिश्चिते वरस्य गेहे त्वथ कन्यकायाः । मृतिर्भवेत्तन्मनुजस्य कस्यचित्तदा न कार्य खल जातु मङ्गलम् || २ || अत्र मङ्गलशब्देन विवाहः । स्मृतिचन्द्रिकायां -- कृते वाङ्निश्चयेऽपि स्यान्मृत्युर्मर्त्यस्य गोत्रिणः । तदा न मङ्गलं कार्य नारी - वैधव्यदं ध्रुवम् ॥ ३ ॥ भृगुः - वाग्दानानन्तरं यत्र कुलयोः कस्यचिन्मृतिः । दोद्वाहो नैव कार्य: स्वपक्षक्षयदो यतः ॥ ४ ॥ वृद्धशौनकः - वरवध्वोः पिता माता पितृव्यश्च सहोदरः । एतेषां प्रतिकूलं चेन्महाविघ्नपदं भवेत् ॥ ५ ॥ पिता मातामहचैव माता चैव पितामही । पितृव्यस्त्रीसुतौ भ्राता भगिनी वा विवाहिता || ६ || एभिरेव विपन्नैश्व प्रतिकूलं बुधः स्मृतम् । अन्यैरपि विपन्नैस्तु केचिदूचुर्न तद्भवेत् ॥ ७ ॥ माण्डव्यः - वाग्दानानन्तरं माता पिता भ्राता विपद्यते । विवाहो नैव कर्तव्यः स्वयं स्वहितमिच्छता ॥ ८ ॥ अथ संकटादौ प्रवृत्तिमाह मेवातिथिः – वाग्दानानन्तरं यत्र कुलयोः कस्यचिन्मृतिः । तदा
Aho! Shrutgyanam