________________
१६०
श्रीशिवराजविनिर्मितोशालकं च द्विदैवजः ॥ ४ ॥ व्यालजा श्वशुरं हन्ति मूलजा स्त्री तथा नरः । हन्ति सार्पोद्भवा कन्या पुमांश्च श्वशुरं स्त्रियम् ॥ ५ ॥ मूलान्त्यपादजी श्रेष्ठौ तथाऽऽश्लेषाद्यपादो । द्वीशान्त्यपादो दुष्टो तद्वज्ज्येष्ठान्त्यपादजो ॥६॥ ज्योतिःसंग्रहे-ऊढायाः पितरं हन्ति मातरं च यथाक्रमम् । यदि वा पादसंख्याब्दैमूलसार्पोद्भवः पुमान् ॥ ७ ॥ मूलजां नोदहेज्जीवत्पितृको व्यालजां तथा । कन्यां जीवन्मातकस्तु न निषेधोऽयमन्यथा ॥ ८॥ नारदः-सुतः सुता वा नियतं श्वशुरं हन्ति मूलजः । तदन्त्यपादजो नापि हन्त्याश्लेषाद्यपादजः ॥९॥ वरयेन्न वरं मूलजातं पितरि जीवति । तथैव विद्यमानायां मातरि व्यालजं नरम् ॥१०॥ तिथ्यंशे पञ्चमे जातौ श्वशुरनौ नरस्त्रियौ । श्वश्रूघ्नौ चाष्टमे मूलस्यैवं व्यस्त तु सार्पथे ॥ ११ ॥ मूलव्यालभवो दोषो विवाहे य उदाहृतः । स मौजीवन्धनादूर्ध्वं पुंसां नैवेति केचन ॥ १२ ॥ वसिष्ठः-मूले साऐं विशाखायामैन्द्रभे चोद्भवः पुमान् । न दोपकृद्विवाहेषु स्त्रियः सर्वत्र गर्हिताः ॥ १३ ॥ अस्यापवादो जातकोत्तमे–मूलसार्पोद्भवं दौष्टयं न स्यान्मित्रादयो ग्रहाः। उक्तस्थानस्थिताः सौन्यदृष्टाश्च बलिनो यदि ॥ १४ ॥ भावे भावाधिपे चैव चन्द्रे च बलशालिनि । उक्तदोषा विनश्यन्ति शुभग्रहयुतेक्षिते ॥ १५ ॥ जन्मलग्नात्पितृस्थानं १० मातुः ४ भार्यायाः ७ भर्तुः ७ श्वशुरस्य ४ श्वश्रूस्थानं १० ज्येष्ठदेवरशालकस्थानम् (?)।
इति मूलजादीनां फलम् ।
अथ वैधव्यादियोगे विवाहः। वैधव्यादिषु योगेषु जन्मकाले मृगीदृशाम् । ब्रूहि वैवाहिकं कर्म कथं तासां विधीयते ॥१॥ अस्य परिहारः संहितासारे-अवैधव्यकरैयोगैर्विवाहपटलोदितैः । वरायाऽऽयुष्मते देया कन्या वैधव्ययोगजा ॥ २ ॥ प्रारब्धानामनारब्धकर्मणां विरतियथा । आत्मज्ञानात्तथा दोषा नन्दाद्यैर्विलयं ययुः॥३॥ व्रतखण्डे सावि ज्यादिव्रतानीह भक्त्या कुर्वन्ति याः स्त्रियः । सौभाग्यं सुभगत्वं च भवेत्तासां सुसंततिः ॥ ४ ॥ पुराणान्तरे-बालवैधव्ययोगेऽपि कुन्भद्रुप्रतिमादिभिः । कृत्वा लग्नं रहः पश्चात्कन्योद्वाह्यति वा परे ॥५॥ यथैव रससंस्कारात्तानं काश्चनतां व्रजेत् । तथा दुष्टफला कन्या विमला स्याद्विधानतः ॥ ६॥
इति वैधव्यादियोगे विवाहः ।
Aho! Shrutgyanam