SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निवन्धः। १५९ अथ दातृनिर्णयः । पिता पितामहो भ्राता पितृव्यो गोत्रजो गुरुः । मातामहो मातुलो वा कन्यादा बान्धवाः क्रमात ॥ १॥ याज्ञवल्क्यः--पिता पितामहो भ्राता स्वकुलो जननी तथा । कन्यापदः पूर्वनाशे प्रकृतिस्थः परः परः ॥ २ ॥ यदाऽत्र नैव कश्चित्स्यात्कन्या राजानमात्रजेत् । पित्रायभावे कर्तव्यः कन्यायाश्च स्वयंवरः ॥ ३ ॥ बलादुद्वाहिता कन्या देयाऽन्यस्मै वराय च । सुसमस्तगुणा कन्या कस्मै देयेति संशयः ॥ ४ ॥ तदा स्वयंबरं कुर्यादपणं सपणं तु वा । महादोपे सुविज्ञाते पूर्व सप्तपदीविधेः । मरणादौ समुत्पन्ने देयाऽन्यस्मै न दोषभाक् । ॥५॥ अपत्नीकैस्तु धर्मार्थ कौशी हैमी च राजती । ताम्री विप्रादिभिभार्या धार्या हैमीऽथवाऽखिलैः ॥ ६ ॥ इति दातृनिर्णयः। अथ विषकन्यकाज्ञानम् । जातकोत्तमे-इलात्मजः सूर्यसुतो दिनेशो भद्रा तिथिर्वारुणमग्निधिष्ण्यम् । सार्प च योगे भवतीह कन्या विषाङ्गना सा परिवर्जनीया ॥१॥ यवन:-- भद्रा तिथिर्यदाऽऽश्लेषा शतभि[प] क् कृत्तिका तथा । मन्दाररविवारेषु विषकन्या प्रजायते ॥ २ ॥ द्वादशी वारुणं सूर्यो विशाखा सप्तमी कुजः । मन्दाश्लेषा द्वितीया च विषकन्या प्रसूयते ॥३॥ त्रैलोक्यप्रकाशे-रिपुक्षेत्रस्थितौ द्वौ तु लग्ने यत्र शुभग्रहौ । क्रूरश्चैकस्तदा जाता भवेत्स्त्री विषकन्यका ॥ ४ ॥ योगजातके - लग्ने सौरी रवेः पुत्रो धर्मस्थो धरणीसुतः । अस्मिन्योगे तु जाता स्त्री सा भवेद्विषकन्यका ॥ ५॥ इति विषकन्याज्ञानम् । अथ मूलजादीनां फलम् । गर्ग:-मूलजा श्वशुरं हन्ति सार्पजा च तदङ्गनाम् । ज्येष्ठाजा तु पतिज्येष्ठं देवरं तु द्विदैवजा ॥१॥ वृद्धनारदः-कन्यका देवरं हन्ति विशाखायां समुद्भवा। पैत्रगण्डोद्भवा कन्या श्वशुरनीति केचन ॥ २॥ न हन्ति देवरं कन्या तुला. मिश्रद्विदैवजा । तदन्त्यपादजा त्याज्या दुष्टा वृश्चिकपुच्छजा ॥ ३॥ कश्यपपटले-पत्न्यग्रजामग्रजं वा हन्ति ज्येष्ठसंजः पुमान् । तथा भार्यास्वसारं च Aho ! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy