SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निबन्धः। अपमृत्युरुजान्विता । भर्तृप्रिया च वेश्या च मान्या वित्तसुतान्विता ॥ १०॥ उत्तरेशानपूर्वासु घटी पूर्णा शुभप्रदा । दिक्षु शेषासु कन्याया मग्ना वैधव्यदायिनी ॥ ११ ॥ अथवा साधयेत्कालं द्वाशाङ्गुलशङ्खना । व्यासत्रिगुणपरिधिः परिधेः सममायतम् ॥ १२॥ व्यासाब्ध्यंशोऽङ्गलं प्रोक्तमिति शङ्कप्रमाणकम् । अन्ययन्त्रप्रयोगा ये दुर्लभाः कालसाधने ॥ १३ ॥ एवं सुलग्ने दंपत्योः कारयेत्सन्यगीक्षणम् ॥ १४ ॥ इति घटिकालक्षणं प्रतिष्ठा च । अथ वेदिकालक्षणम् । केचिदूचुर्ध्वजायेन रचयेद्धरिणाऽथवा । करोच्छ्रितां सप्तहस्तदीर्घा वा पञ्चविस्तृताम् ॥ १ ॥ नारदः-हस्तोच्छ्रितां चतुर्हस्तैश्चतुरस्रां समन्ततः । स्तम्भैश्चतुर्भिः सुश्लक्ष्णैर्वामभागे स्वसद्मनः॥२॥ समण्डपां चतुर्दिक्षु सोपानरतिशोभिताम् । प्रागुदक्प्रवणां रम्भास्तम्भहंसशुकादिभिः॥३॥ विचित्रितां चित्रकुम्भैविविधैस्तोरणाङ्कुरैः । शृङ्गारपुष्पनिकरैर्वर्णकैः समलंकृताम् ॥ ४ ॥ विपाशीर्वचनैः पुण्यस्त्रीभिर्दीपैर्मनोरमाम् ॥५॥ वादित्रनृत्यगीताद्यैर्हदयानन्दिनीं शुभाम् । एवंविधां तामारोहेन्मिथुनं साग्निवेदिकाम् ॥६॥ इति वेदिकालक्षणम् । अथ गान्धर्वविवाहशुद्धिः। पुनर्भूवरणं प्रोक्तं शूद्रादीनां शुभाप्तये । पट्टे शुद्धे विवाहः सुवेलायां वलेऽधिके ॥ १॥ न शुक्रास्तादिकं चिन्त्यं शुद्धिवेधादिकं तथा । पुनर्भुवां संवरणे न मासतिथिशोधनम् ॥ २ ॥ त्रीण्यक्षमकादि कुलक्षयश्च पूर्वादिलक्ष्मीमतिदुर्वलत्वे । सौभाग्यवन्ध्या विधवा च नारी पुत्रप्रसूतिर्धनपट्टकाले ॥ ३॥ सूर्यभात्रिपटे शुद्धे धिष्ण्यं शाकं तिथिर्मितम् । आकृतिविकृतिविश्वं गन्धर्वादों विचिन्तयेत् ॥ ४ ॥ पञ्च पाणिग्रहे दोषा वर्जनीयाः प्रयत्नतः । दारियं मृतिवैधव्ये पौंश्चल्यमनपत्यता ॥५॥ इति गान्धर्वविवाहशुद्धिः। १ ग. ब. 'येद्वरिं'। Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy