SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १५४ श्री शिवराजविनिर्मितो मष्टमम् ॥ १ ॥ चतुर्थ सगुणं देयं द्वादशं च गुणाधिकम् । सगुणं चाष्टमं लग्नं त्याज्यमंशस्तथाऽष्टमः ॥ २ ॥ जन्मर्क्षजन्मलग्नाभ्यां रन्ध्रेशाष्टौ च यौ । विलग्नसंस्थितानेतांस्तद्राश्यंशानपि त्यजेत् || ३ || नारदः - चतुर्थमभिजिल्लग्नमुदयर्क्षात्तु सप्तमम् । गोधूलिकं तदुभयं विवाहे पुत्रपौत्रदम् ॥ ४ ॥ प्राच्यानां च कलिङ्गानां मुख्यं साधारणं स्मृतम् । अभिजित्सर्वदेशेषु मुख्यं दोषविनाशकृत् || ५ || मध्यंदिनगते भानौ मुहूर्तोऽभिजिदाह्वयः । नाशयत्यखिलं दोषं पिनाकी त्रिपुरं यथा ॥ ६ ॥ मध्यंदिनगते भानौ सकलं दोषसंचयम् । करोति नाशमभिजित्तू संघमिवानलः ॥ ७ ॥ इति लग्नशुद्धिः । अथ लग्नगोचरम् । आषष्टतः खनवमायगताश्च सौम्याः शस्ताः षडायसहजाष्टमभेषु पापा: । पाणिग्रहे त्रिसुखलाभधनेषु चन्द्रः षष्ठः सितो निधनगो न शुभो महीजः ॥ १ ॥ रन्ध्रे कुजे सौम्यखगे च मृत्युः षष्ठाष्टगे लग्नपतौ च मृत्युः । तृतीयगे देवरगा च शुक्रे ऽप्याहरन्ते शुभदौ सितेज्यौ || २ || त्रिकोण सप्तमाम्बरव्ययोपगो विलशतः । हिमद्युतिः शुभर्क्षगः शुभेक्षितश्च शोभनः ॥ ३ ॥ नेष्टौ षष्ठाष्टमी लग्नादंशनाथविलग्नपौ । तथा द्रेष्काणनाथथ चन्द्रश्च मरणप्रदः || ४ || नातिदुष्टाः शुभा द्यूने तथा लग्नेश्वरो व्यये । द्रेष्काणेशस्तथा रन्ध्रे क्षीणेन्दुर्मध्यमे धने ॥५॥ निधनचतुष्टयसंस्थे पापद्वयमध्यगे क्षपानाथे । निधनं प्रयाति नियतं देवैरपि रक्षिता कन्या || ६ || वैरिवारे शुभः खेटो लग्नगोऽप्यशुभायते । मित्रवारे तु पापेऽपि शुभदः स्यान्न संशयः ||७|| अरिनीचर्क्षगे शुक्रे श्वश्वाऽर्केश्वशुरेण च । कलत्रेंऽशे च पत्या हि स्याद्विरोधो मृगीदृशाम् ||८|| पञ्चभिरिष्टैरिष्टं पुष्टमनिष्ठैरानमांदेश्यम् । स्थानादिवलसमृद्धैश्चतुर्भिरपि पठ्यते यवनैः ॥ ९ ॥ नारदः- धनत्रिबन्धुतनयाधर्माज्ञायेषु चन्द्रमाः । करोति सुतसौभाग्यभोगयुक्तां विवाहिताम् ॥ १० ॥ वसिष्ठः---मृत्युनैःस्व्यं बहुविधधनं भातृहानिः प्रजानां व्याधिर्मान्यैरतिशयधनं भ्रातृहानिश्विरायुः । श्रेयोहानिर्भवति हृदयव्याधिरर्थागमत्वं भानौ स्त्रीणामतिशयरुजा लग्नभावादिसंस्थे ॥ ११ ॥ नाशः संपद्बहुविधयशो बन्धुवृद्धिः प्रजाप्तिः शस्त्रान्मृत्युर्भवति च चिरादीर्घसापत्न्यबाधा । प्रवज्यात्वं दुहितृजनितृत्वं धनं १.क. घ. 'था दृकाण । २ क.. 'ये । वृक्कणे । Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy