________________
ज्योतिर्निबन्धः।
अथ कन्यावरणम् । पश्चाङ्गशुद्धिदिवसे चन्द्रताराबलान्विते । विवाहभस्योदये वा कन्यावरणमाम्वयैः ॥ १॥ विश्वक्षेपूर्णात्रयकर्णयुग्मस्वात्यग्निमैत्रैश्च विवाहभैर्वा । प्रत्यङ्मुखः सन्वरयेत्कुमारी फलादिभिः प्राग्वदनीं सुवेषाम् ॥२॥धीधर्मकेन्द्रगैः सौम्यैः पापैः शत्रुत्रिलाभगैः । कन्याया वरणं कार्य जीवे चोपचयस्थिते ॥३॥ कन्याप्रदानमपरे विवाहतुल्यं वदन्ति कालज्ञाः । लग्नं विना वसिष्ठः पाह मुनिनारदश्चैवम् ॥४॥ नारदः-भूषणैःफल (पुष्प)ताम्बूलफलगन्धाक्षतादिभिः । शुक्लाम्बरैगीतवाद्यैर्विप्राशीर्वचनैः सह ॥ ५॥ कारयेत्कन्यकागेहे वरः प्रणवपूवकम् । तदा कुर्यात्पिता तस्याः प्रदानं प्रीतिपूर्वकम् ॥ ६ ॥ कुलशीलवयोरूपवित्तविद्यायुताय च । वराय रूपसंपन्नां दद्यात्कन्यां यवीयसीम् ॥ ७॥ संपूज्य संपार्थ्य च तां शचीदेवीं गुणाश्रयाम् । त्रैलोक्यसुन्दरीं दिव्यगन्धमाल्याम्बरान्विताम् ॥ ८ ॥ सर्वलक्षणसंयुक्तां सर्वाभरणभूषिताम् । अनर्घ्यमणिमालाभिर्भासयन्तीं दिगन्तरान् ॥ ९॥विलासिनीसहस्राद्यैः सेव्यमानामहर्निशम् । एवंविधां कुमारी तां पूजान्ते प्रार्थयेदिति ॥१०॥ देवेन्द्राणि नमस्तुभ्यं देवेन्द्रप्रियभामिनि । विवाहभाग्यमारोग्यं पुत्रलाभं च देहि मे ॥ ११॥ श्वेताम्बरं नारिकेलं भक्ष्यायफलमर्पयेत् । प्रदाने यदुकूलादि कर्णकण्ठादिभूषणम् ।। १२ ॥ उभे वा युगपत्कार्ये तत्र तद्वस्त्रमण्डने । आदौ संपादयेत्पश्चाद्विन्यसेत्फलमञ्जलौ ॥ १३ ॥ हरिद्रामधुपुष्पाणि गुडजीरकतण्डुलाः । धान्यकं मुद्रिकावल्ली सौभाग्याष्टकमुच्यते ॥ १४ ॥ लग्नशब्दो विवाहे स्यादरणं फललग्नयोः । पाणिपीडनशब्दस्तु कन्यादाने करग्रहे ॥ १५॥ विवाहढेषु यः प्रोक्तो मयाऽङ्घ्रिक्षालनोत्सवः । कन्याया वरणात्पूर्व देशाचारः स केवलम् ॥ १६ ॥
इति कन्यावरणम् ।
अथ विवाहकालविचारः। नारदः--युग्मेऽब्दे जन्मतः स्त्रीणां प्रीतिदं पाणिपीडनम् । एतत्पुंसामयुग्मेऽन्दे व्यत्यये नाशनं तयोः॥१॥ संवर्त:-अष्टवर्षा भवेद्गौरी नवमे रोहिणी भवेत् । दशमे कन्यका मोक्ता द्वादशे वृषली मता ॥२॥ गौरी ददन्नाकपृष्ठं वैकुण्ठं रोहिणीं ददत् । कन्यां ददद्ब्रह्मलोकं रौरवं तु रजस्वलाम् ॥ ३॥
इति विवाहकालः ।
Aho! Shrutgyanam