________________
ज्योतिनिबन्धः। सूर्यसितौ बुधस्य हिसगुः शत्रुः समाश्चापरे ॥ ३ ॥ सूरेः सौम्यसितावरी रविसुतौ मध्यौ परे चान्यथा सौभ्यार्की सुहृदौ समौ कुजगुरू शुक्रस्य शेषावरी । शुक्रज्ञौ सुहृदौ समः सुरगुरुः सौरस्य चान्येऽरयस्तत्कालेन दशायबन्धुसहजस्वान्त्येषु मित्रं स्थिताः ॥ ४ ॥ यथेशयोमिथो भावो दंपत्योस्तादृशो भवेत् । दुष्टं कूटं शुभं मैच्या सद्भावैरपि शस्यते ॥ ५॥ ज्योतिष्प्रकाशे- राशीशी 'सुहृदा स्यातां जन्मकाले चदा तदा । ग्रहवैरेऽपि कर्तव्यं भकूटं मुनयो जगुः ॥ ६॥ विवाहवृन्दावने-आपावकेन्द्रद्वयगा: प्रसूतौ तत्कालमित्राणि मिथ: खपान्थाः । न्यूनामपि स्वीनरभुत्यराज्ञां तत्कालसंख्यां विशिनाष्टि मैत्रीम् ॥७॥
___अथ गणशुद्धिः । देमरामदमंदेदेराराममदरादराः। देराराममदेराराममदति गणत्रयम् ॥१॥ 'पटलसारे-स्वगणे चोत्तमा प्रीतिर्मध्यमा देवमर्त्ययोः। असुरासुरयोवैरं मृत्युर्मानुषरक्षसोः ॥ २ ॥ रक्षोगणा यदा नारी नरो नरगणो भवेत् । तदोद्वाहो न कर्तव्यो यस्माद्वैधव्यदो ध्रुवम् ॥ ३ ॥ वरस्तीत्रगणश्चापि कन्या च नृगणा भवेत् । दुष्टकूटे गुणाढ्येऽपि तत्र मृत्युर्न संशयः ॥ ४ ॥ वराहपटले-रक्षोगणो यदि नरो नृगणा कुमारी सदाशिकूटखगमैत्रभयोनिशुद्धिः । यद्यस्ति तत्र भयदं करपीडनं स्याद्वामभ्रुवां खलु यदा नदि नाडियोगः ॥ ५॥ सद्भकूटं योनिशुद्धिग्रहसख्यं गुणत्रयम् । एवेकतमसद्भावे कन्या रक्षोगणा शुभा ॥६॥
अथ भमेलः। एकराशौ पृथग्धिष्ण्ये पृथग्राशौ तथैकभे । एकांशेऽपि कृतोद्वाहः श्रेष्ठो मध्योऽधमः क्रमात् ॥ १ ॥ एकराशौ शुभोद्वाह एकमांशे मृतिप्रदः । यदि स्याद्भिन्ननक्षत्रं शुभदः शौनकोऽब्रवीत् ॥ २॥ दंपत्योरेकराशिः स्याद्भिन्नमृक्षं यदा तदा । गणदौष्टयेऽप्येकनाडयां विवाहः शुभदः स्मृतः ॥ ३ ॥ नाडीगणों नैकराशौ चिन्त्यौ भिन्नभयोर्यथा । कृत्तिकाकभयोःशस्वात्योः पूभाजलेशयोः ॥ ४ ॥ एकमे भिन्ननक्षत्रे न नाडीगणदुष्टता । वह्निभब्राह्मवत्प्रीतिः शतताराजपादवत् ॥ ५॥ व्यवहितराश्योक्षं यद्येकं जायते तत्र । नाडीदोषो वाच्यो मरणकरः सोऽपि दंपत्योः ॥ ६ ॥ एकराशौ द्विनक्षत्रे पुंस्तारा प्रथमा भवेत् । अतीव शोभना प्रोक्ता स्त्रीतारा चेद्विनश्यति ॥ ७ ॥ भवनद्वययुक्तः पूर्व पुंसां शुभावहम् । पश्चाद्भागं तथा स्त्रीणां व्यत्ययस्तु विनाशकृत् ॥ ८ ॥ तत्र वय॑नक्षत्राण्युच्यन्ते गर्गेण ---- एकगशौ द्विनक्षत्रे कृत्तिकायाम्यतारके ।
Aho! Shrutgyanam