________________
१४०
श्रीशिवराजविनिर्मितो
अथ शुभाशुभज्ञानम् । पृच्छा विलग्ने यदि राशिसंस्थे दाक्षायणीशे मरणं वरस्य । वर्षेऽष्टमे स्यादथ लग्नगेऽब्जे धरासुते सप्तमगे च शीघ्रम् ॥ १ ॥ क्षीणेन्दुभौमार्किदिवाकराणामेकोऽपि लग्ने मरणाय खेटः । भवेद्धृवं वत्सरपञ्चकेन क्रूरग्रहे सप्तमगे वरस्य ॥ २ ॥ सप्तमगोऽर्कः कन्यां मृतप्रजां पुंश्चलीं करोत्युदये । कथितं यचोद्वाहे योज्यं तत्प्रश्नकालेऽपि ॥ ३ ॥ शौनकः-ऋरग्रहो विलग्ने सप्तमसंस्थो यदि भवेत्क्रूरः । सप्तभिरब्दैमरणं शशिभौमौ सप्तभिर्मासैः ॥ ४ ॥ पृच्छाविलग्नसंस्थौ गुरुसौम्या दीर्घजीविनी करतः । पञ्चमसंस्थौ पुत्राञ्जामित्रे गोधन विपुलम् ॥ ५ ॥ नारदः-- पृच्छकस्य भवेल्लग्नादिन्दुः षष्ठाष्टगोऽपि वा । दंपत्योर्मरणं वाच्यमष्टमाब्दान्तरे यदि ॥६॥ यदि लग्नगतः क्रूरस्तस्मात्सप्तमगः कुजः । विज्ञेयं भर्तमरणं सप्तमाब्दान्तरे तदा ॥ ७॥ यदि लग्नगतश्चन्द्रस्तस्मात्सप्तमगः कुजः। विवाहात्परतो भता त्वष्टमाव्दे न जीवति ॥ ८ ॥ लग्नात्पञ्चमगः पापः शत्रुदृष्टः स्वनीचगः । मृतपुत्रा तदा कन्या कुलटा का न संशयः ॥९॥ विवाहे जन्मपृच्छोक्ता जन्मन्युद्वाहप्रश्नजाः । जन्मोद्वाहोदिताः प्रश्ने योगा योज्या धिया बुधैः ॥ १० ॥ विपाङ्गनामूलजादिजन्मोत्थं च शुभाशुभम् । विलोकनीयमत्रैव तत्तत्प्रकरणोदितम् ॥ ११ ॥ शौनकः-एतबुवा शास्त्रं मन्दमतियः प्रयच्छति विवाहम् । अयशोवुधौ स मजति तस्माद्विज्ञाय वै दद्यात् ॥ १२ ॥
इति शुभाशुभज्ञानम् । ।
अथ राशिकूदविचारः। अथ भक्टे लग्नस्योपेक्षा ज्योतिष्प्रकाशे-जन्मलग्नात्फलं सर्वमायुर्दायदशादिकम् । कीर्तितं मुनिभिस्तत्तु भमेलेऽनादृतं कथम् ॥ १॥ विवाहबृन्दावने-जन्मलग्नमिदमङ्गसङ्गिनां मेनिरे मन इतीन्दुमन्दिरम् । सौहृदं हि मनसोर्न देहयोर्मेलकस्तदयमिन्दुगेहयोः ॥ २॥
इति भकूटे लग्नानादरः।
अथ घदितभेदाः। वृहस्पति:- दंपत्योर्जन्मताराभ्यां नामाभ्यामथापि वा । भमेलं चिन्तयेत्याज्ञः
Aho! Shrutgyanam