________________
ज्योतिर्निबन्धः।
१३९ कपोतः प्रविशेद्यस्य गृहं घूको गृहोपरि । शब्दं कुर्यात्स नश्येच्च यः पश्येत्काकमैथुनम् ।। १७ ॥ स्वप्ने मुण्डितमात्मानं षण्मासायुर्निरीक्षते । कर्णनासाकरादीनां छेदनं पङ्कमज्जनम् ॥ १८ ॥ पतनं दन्तकेशानां पकमांसस्य भक्षणम् । खरोष्ट्रमहिपैर्यानं तैलाभ्यङ्गं च मृत्यवे ॥ १९ ॥
___ इति स्वस्थारिष्टानि ।
अथ दैवज्ञं प्रति पृच्छा। पुण्येह्नि लक्षणोपेतं सुखासीनं सुचेतनम् । प्रणम्य देववत्पृच्छेदैवज्ञं भक्तिपूर्वकम् ॥ १ ॥ ताम्बूलफलपुष्पायैः पूर्णाञ्जलिरुपागतः । कर्ता निवेद्य दंपत्योजन्मराशि स्वजन्मभम् ॥ २ ॥ पुण्यैर्निमित्तशकुनैः प्रश्नकाले तु मङ्गलम् । दंपत्योरशुभैस्तैस्तु विरुद्धं सर्वथा भवेत् ॥ ३ ॥ सप्तर्षयः-पृथक्समयनिमितान्यवलोक्य च शास्त्रमार्गविदा । प्राक् सुकृतदुष्कृतभवं फलमिह वाच्यं प्रयत्नेन ॥ ४ ॥ ललः- प्रश्ने यदि शुभशकुनस्तदा शुभं कन्यकावरयोः । अशुभेषु भवत्य शुभं शकुनेषु न संशयस्तत्र ॥ ५ ॥ शौनकः-जन्मसमये यदुक्तं शुभाशुभं दिव्यद्दम्भिराचार्यैः । पृच्छापरिणयनाभ्यां तदेव युक्त्या प्रयोक्तव्यम् ॥ ६॥
तत्राऽऽदौ विवाहपृच्छा। व्ययेशो यदि लग्नस्थो लग्नेशो व्ययगो भवेत् । तदा विवाहपृच्छार्या विवाहो भवति ध्रुवम् ॥ १॥ लग्ने स्थिरे पापगुते नृनार्योरुद्वाहसिद्धिर्न भवेकदाचित् । जीवेन दृष्टोऽथ शशी त्रिपञ्चसप्तायखस्थः कुरुते विवाहम् ॥ २ ॥ चन्द्रो लग्नपतिवाऽपि कन्यालाभाय कामगः । द्यूनपो लग्नगः शीघ्र कन्यालाभाय जायते ॥ ३ ॥ कर्कतुलाधरवृषभाः शुक्रेन्दुयुप्ता निरीक्षिप्ता वाऽपि । संपृच्छतां नराणां कन्यालाभोऽस्ति नियमेन ॥ ४ ॥ युग्मलग्नेऽब्जशुक्राभ्यां कन्याप्तिस्तद्युतेक्षिते । तथा वराप्तिः पुंलग्ने पुंग्रहैर्वोजगेऽर्कजे(?) ॥ ५॥ कृष्णपक्षे प्रश्नलग्नाद्युग्मराशौ शशी यदि । पापदृष्टोऽथवा रन्धे न संबन्धो भवेत्तदा ॥६॥
इति विवाहपृच्छा।
Aho! Shrutgyanam