________________
श्रीशिवराजविनिर्मितोपुमान्स्याल्लक्षणरेतैर्विपरीतस्तु पण्डकः ॥ ६ ॥ अपरीक्ष्य वरं कन्यां निर्गुणाय ददाति यः । कुलं तस्यैव तच्छोकसंतप्तोर्वी निकृन्तति ॥ ७॥
इति वरगुणाः।
अथ कन्यागुणाः । वधू सुलक्षणोपेतां प्रसन्नाख्यां कुलोद्भवाम् । कन्यका वरयेद्रूपवतीमव्यङ्गविग्रहाम् ॥१॥अपुत्रा ह्यक्रिया त्याज्या निश्छेदा रोमशीर्षका । दुर्भगा त्वथापस्मारी कुष्ठी कृत्या कुलस्त्रियः ॥२॥ कारिकानिबन्धे-ज्योतिःसागरेच-भुजगविहङ्गमभीपणपादपनाम्नी लकाररेफान्ता । ऋक्षनदीनदसंज्ञा न विवाह्या कन्यका सद्भिः॥ ३॥ अत्रान्तशब्देनोपान्तो लक्षितः। धन्या पर्वतपुष्पाख्या पुष्पनाम्नी च कन्यका । अतिदीर्घा च कपिला वा कृष्णाऽतिरोमशा ॥४॥ ठान्तं भीषणमाख्यातं नद्याप्यं वारुणं नदः। पक्षिद्वीशं तरुर्मुलं सापश्लेिपाक्षकं मघा ॥ ५ ॥ इति केचिन्मतं प्रोक्तं परैः प्रोक्तमथोच्यते । भुजङ्गादिप्रसिद्धार्थनाम्नी कन्यां विवर्जयेत् ॥ ६॥
इति कन्यागुणाः।
अथ सामुद्रिकलक्षणानि । अर्चितं वचनमुन्नतं मनो निर्विशेषसुखदं दृशां वपुः । अस्ति चेदथ पराङ्मुखी मतिर्लक्षणैः किमपरैर्नृयोषिताम् ॥ १॥ मनसश्चक्षुषो यस्मिन्वरे यस्यां च योषिति । संतोषो जायते तत्र नान्यत्किंचिद्विचिन्तयेत् ॥ २ ॥ तत्रापि किंचिदुच्यते-पञ्चदीर्घ चतुर्हस्वं पञ्चसूक्ष्म पडुन्नतम् । सप्तरक्तं त्रिगम्भीरं त्रिविस्तीर्ण प्रशस्यते ॥ ३ ॥ हनुलोचनबाहुनासिकाः स्तनयोरन्तरमत्र पश्चमम् । इति दीर्घमिदं तु पञ्चकं न भवत्येव नृणामभूभृताम् ॥४॥ नाभिः स्वरः सत्त्वमिति प्रशस्तं गम्भीरमेतत्रितयं नराणाम् । उरो ललाटं वदनं च पंसां विस्तीर्णमेतत्रितयं प्रशस्तम् ॥ ५॥ वक्षोऽथ कक्षाद्वयनासिकास्यकृकाटिकाश्चेति षडुनतानि । हस्वाणि चत्वार्यथ लिङ्गपष्ठे ग्रीवा च जधे च हितप्रदानि ॥६॥ नेत्रान्तपादकरताल्वधरोष्ठजिह्वा रक्ता नखाश्च खलु सप्त सुखावहानि । सूक्ष्माणि पञ्च दशनाङ्गुलिपर्वकोशाः साकं त्वचा कररुहाश्च न दुःखितानाम् ॥ ७ ॥ यवोऽङ्गुष्ठोदरे यस्य यशस्वी च नरो भवेत् । अनामिक्या मूलजा स्यादेखा
१ घ.निश्छन्दो । २ घ. रीषष्टी।
Aho! Shrutgyanam