________________
१३४
श्रीशिवराजविनिर्मितो
तानि हरितस्य गणः स्मृतः । तस्मिन्परस्परं पाणिग्रहणं न हि शोभनम् ॥ २२ ॥ मौल्य:- मौद्गल्यतार्क्ष्य भार्म्याश्वास्त्रीणि गोत्राण्यमूनि हि । मौद्गल्यस्य गणस्तत्र न मिथः पाणिपीडनम् ॥ २३ ॥ कण्यः - कण्वोऽजमीढ इत्येते गोत्रे कण्वगणः स्मृतः । तस्मिन्परस्परं पाणिग्रहणं न शुभं मतम् ॥ २४ ॥ विरूपः- विरूपोऽष्टादंष्ट्रिनामा पृषदश्वश्च मौद्गलः । चत्वारीमानि गोत्राणि विश्वरूपगण: स्मृतः 1 परस्परं विवाहोऽस्मिन्न विधेय इतीरितः ॥ २५ ॥ विष्णुवृद्धः - विष्णुवृद्धः पौरुकुत्स्यस्त्रसदस्युः कतस्तथा । माषणो भद्रणाख्यश्च वादरायणसंज्ञकः ॥ २६ ॥ सत्यकामौपमित्यौ च गविः सात्यकिंतालुकी । नितुन्दश्चेति गोत्राणि त्रयोदशमितानि च ॥ २७ ॥ विष्णुवृद्धगणस्तस्मिन्न विवाहः परस्परम् | गौतमस्य गणा ह्यष्टौ यस्तथाऽऽङ्गिरसो गणः ! तथाऽप्येषां गणानां तु विवाहः स्यात्परस्परम् ॥ २८ ॥ अत्रिः - तदेतद्गोत्रनवकमत्रिः स्यान्नर्चनानसः । श्यावाश्वो धामरन्ध्रश्च गविष्ठिरधनञ्जय || २९ || सुमङ्गल स्तिथिवर्जिवापश्चात्रिगणो ह्ययम् । आत्रेयाख्ये विवाहोऽस्मिन्न विधेयो मिथः शुभम् ॥ ३० ॥ विश्वामित्रःविश्वामित्रो देवरातो मनुस्तन्तुश्च औलकिः । वालकिश्चिकितोलको याज्ञवल्किश्च नारदः॥३१॥ बृहदग्निः कालववौ शवली बहुलोहितौ । शालङ्कायनवावर्ण्य कामकायनपूरणौ ||३२|| शालवातोऽग्निदेवश्च मदनः कौशिकौष्टकौ । आज्यो मधुच्छन्दसश्च देवश्रवधनञ्जयौ ॥ ३३ ॥ शुङ्गः कतः शैशिनश्च वारिधारोऽघमर्षणः । सूनुः पनश्च धूम्राख्यो जठरस्त्वेकहव्यकः ॥ ३४ ॥ अष्टात्रिंशच्च गोत्राणि विश्वामित्रगणः स्मृतः । एतस्मिन्नपि चान्योन्यं न कुर्यात्पाणिपीडनम् ॥ ३५ ॥ कश्यपः- कश्यपो रेभरौभौ च शाण्डिल्यो देवलोहितः । सांकृतिः पूतिमाषश्च वत्सरो नैध्रुवो दश । गोत्राणि कश्यपगणस्तत्रान्योन्यं न दोर्ग्रहः || ३६ || वसिष्ठः-वसिष्ठ इन्द्रप्रमदस्त्वाभरद्वसुसंकृतिः । कौण्डिन्यः पूतिमाषश्च गौरवीतिः पराशरः || ३७ || मैत्रावरुणसक्थिश्च उपमन्युगणः स्मृतः । एकादश वसिष्ठस्य गोत्रस्यास्मिन्न दोर्ग्रहः ॥ ३८ || अगस्त्यः - त्रीण्यगस्त्यो वीतवाहो दाढर्चच्युत इति स्मृतः । एषोऽगस्त्यगणस्तस्मिन्न विवाहः परस्परम् ॥ ३९ ॥ जमदग्निगणस्यापि विश्वामित्रगणस्य च । न देवरातगोत्रेण विवाहः स्यात्परस्परम् ॥४०॥ भरद्वाजगणस्यापि विश्वामित्रगणस्य च । कतरौशिरशुङ्गैश्व नान्योन्यं पाणिपीडनम् ॥ ४१ ॥ काश्यपेयगणस्यापि विश्वामित्रगणस्य च । संकृतिपूतिमाषाभ्यां विवाहो न परस्परम् ॥ ४२ ॥ आत्रेयस्य गणस्यापि विश्वामित्रगणस्य च । धनञ्जयाख्यगोत्रेण नान्योन्यं पाणिपीडनम् ॥ ४३ ॥ भरद्वाजगणस्यापि
Aho! Shrutgyanam