________________
ज्योतिर्निबन्धः !
१३३
9
अत्राऽऽङ्गिरसमान्धातृप्रवरभेदेऽपि यौवनाश्वगोत्रमेकम् । अतस्तत्र विवाहो मा भूदित्यसमान गोत्रग्रहणम् । अत्र विशेषमाह सूत्रकारः - एक एव ऋषिर्यावत्यवरेवनुवर्तते । तावत्समान गोत्रत्वमन्यत्र भृग्वङ्गिरसां गणात् इति ||७|| गोत्रप्रवर्तकाः प्राधान्येनाष्टौ मुनयः । ते च - अगस्त्याष्टमाः सप्तर्षयः । तथा च बौधायनःविश्वामित्रो जमदग्निर्भरद्वाजोऽथ गौतमः । अत्रिर्वसिष्ठः कश्यप इत्येते सप्तर्षयः । सप्तानामृषीणामगस्त्याष्टमानां यदपत्यं तद्गोत्रमित्याचक्षत इति । अत्र संग्रहकारस्वष्ट|दश गणानाह—जामदग्न्यो वीतहव्यो वैन्यो गृत्समदाह्वयः । वाध्यश्वो गौतमाख्यश्च भरद्वाजाह्वयः कपिः ||८|| हरितो मौद्गलः कण्वो विरूपो विष्णुवृयः ( कः ) | अत्रिविश्वामित्रकौ च वसिष्ठः कश्यपाह्वयः । अगस्त्यश्रुति मुनयो ह्यष्टादश गणाः स्मृताः ॥ ९ ॥ जामदग्न्यः - जामदग्न्यश्च वत्सश्च श्रीवत्सश्चानवाह्वयः । आप्तवानौर्व सार्वेण जीवन्तो देवरातकः । शीतशायनशाखाख्यो वैरोहित्यो वटाह्वयः ।। १० ।। मण्डः प्राचीनयोग्यः स्यादार्ष्टिषेणस्त्वरूपकः । एतानि भार्गवाख्यानि दशसप्तोत्तराणि च | जामदग्न्यगणे तस्मिन्न विवाहः परस्परम् ॥। ११ ॥ वीतहव्यः - वीतहव्ययस्कमौनमोकवाधूलसंज्ञकाः । सावेदश्च षडेतानि भार्गवाख्यान्वये गणः । वीतहव्यस्य वाऽन्योन्यं न कार्य पाणिपीडनम् ।। १२ ।। वैन्यः - वैन्यः पार्थश्च गोत्रे द्वे भवतो भार्गवादयः । एष वैन्यगणस्तत्र अन्योन्यं न करग्रहः ॥ १३ ॥ गृत्समदः - उभे गोत्रे गृत्समदः शौनको भार्गवालयः । गणो गृत्समदस्तस्मिन्नान्योन्यं पाणिपीडनम् ॥ १४ ॥ वाध्यश्वः-द्वे वाध्यश्वो मित्रयुग्मो गोत्रे भार्गवनामकः । वाभ्रयश्वस्य गणस्तस्मि
द्वाहो न परस्परम् || १५ || जामदग्न्यादयः पञ्च गणा भृगुगणाः स्मृताः । न चैतेषां गणानां तु विवाहः स्यात्परस्परम् ॥ १६ ॥ गौतमः - गौतमो यस्य औतथ्यः कक्षीवानौशिजस्तथा । वृहदुक्थो वामदेवो गोत्राणीमानि सप्त च । गौतमस्य गणस्तस्मिन्विवाहो न परस्परम् || १७ || भारद्वाजः --- भारद्वाजः कुशः कनिवैश्य ऊर्जयमः कृतः । शैशिरः शीरशुङ्गश्च वदनश्व बृहस्पतिः ॥ १८ ॥ सर्वस्तम्बः कपिनतिवचसो गार्ग्य सैन्य कौ । भारद्वाजगणः सप्तदशगोत्रमिति स्मृतम् । तस्मिन्परस्परं कार्यं न कन्यापाणिपीडनम् ॥ १९ ॥ कपिः कपिश्च महदक्षयो रुक्षीयस्त्रीणि केवलम् । अयं कपिगणोऽन्योन्यं तस्मिन्न हि करग्रहः || २० || हरित:- हरितो यौवनाश्वश्व मान्धाता कुत्सना - मकः । पिङ्गलः शङ्खदर्थौ च भीमश्च गवनायकः ॥ २१ ॥ अम्बरीषो दशै१ व. “मित्रः क्रौञ्चव ं । २ व. वर्णिीं । ३. स्वनूप' । ४६. वैन्या वयोश्च । ५. नचव ।
Aho! Shrutgyanam