________________
१३२
श्रीशिवराजविनिर्मितोद्धीमान्वरं यावच्च कन्यकाम् ॥ ४ ॥ धर्मप्रदीपे-असपिण्डां च पितृतः सप्तमात्पुरुषात्परम् । मातृतः पञ्चमादूर्ध्वमसमानार्पगोत्रजाम् ॥ ५ ।। स्मृतिचन्द्रिकायां निर्णयवचनं-मूलगोत्रादन्यगोत्रामुद्रध्दष्टमोऽष्टमीम् । अन्यगोत्रादन्यगोत्रां षष्ठः पष्ठी समुद्हेत् ॥ ६॥ तृतीयां वा चतुर्थी वा पक्षयोरुभयोरपि । विवाहयेन्मनुः प्राह पाराशर्योऽगिरा यमः ॥ ७ ॥ मातुलस्य सुतामूढां मातृगोत्रां तथैव च । समानमवरामूढां परित्यज्य प्रपालयेत् ॥ ८ ॥ पश्चमात्सप्तमार्था मातृतः पितृतस्तथा । उभयोमातृतश्चैव षष्ठः षष्ठी समुद्हेत् ॥ ९॥ लिङ्गपुराणे--वाक्संबन्धकृतानां तु स्नेहसंबन्धभागिनाम् । विवाहोऽत्र न कर्तव्यो लोकगर्दा प्रसज्यते ॥ १० ॥ स्मृतिमहार्णवे-या दुष्पतीतसंबन्धा मातृगोत्रद्वये च या । सगोत्रा च सपिण्डा च वा सोदाहकर्मणि ॥१०॥
इति विवाहे कुलविचारः।
अथ गोत्रप्रवरनिर्णयः । समानप्रवरां कन्यां सपिण्डां चैकगोत्रजाम् । नैव तां वरयेत्याज्ञो मातृवत्परिकीर्तिता ॥ १ ॥ एक एव ऋपियंत्र प्रवरेष्वनुवर्तते । तावत्समानगोत्रत्वमृते भृग्वङ्गिरोगणात् ॥ २॥ प्रवरमञ्जर्या-पञ्चानां त्रिषु सामान्यादविवाहस्त्रिषु द्वयोः । श्रग्वाङ्गिरोगणेष्वेवं शेपेष्वेकोऽपि वारयेत् ॥ ३ ॥ समानप्रवरी भिन्नो मातगोत्रे वरस्य च । विवाहो नैव कर्तव्यः सा कन्या भगिनी भवेत् ॥ ४ ॥ प्रवरप्रदीपे-पैत्रे प्रवरभिन्नत्वं चिन्तनीयं न मातृके । केवलं मातृर्क गोत्रं वयं कात्यायनोऽब्रवीत् ॥ ५ ॥ गोत्रं मातुरपुत्राया वर्जयेत्प्रवरान तु । सपुत्रायास्तु नो गोत्रं प्रवरांश्च न चिन्तयेत् ॥ ६ ॥ प्रयोगघारिजाते-असमानार्षगोत्रजामिति । ऋषेरिदमा प्रवरगोत्रप्रवर्तकस्य मुनेावर्तको मुनिगण इत्यर्थः । तद्यथा गोत्रप्रवर्तकस्य भारद्वाजस्य व्यावर्तकावङ्गिरोबृहस्पती । अत एवाऽऽङ्गिरसबार्हस्पत्यभारद्वाजगात्रामति प्रयुञ्जते । एवमन्यत्राप्युदाहार्यम् । गोत्रं तु वंशपरम्परामसिद्धम् । यस्या वध्या वरेण सह प्रवरैक्यं गोत्रैक्यं वा नास्ति सा वधूर्विवाहमर्हति । कचिद्गोत्रभेदेऽपि प्रवरैक्यमस्ति । याज्ञवल्क्यबाधूलमौनमौकानां भिन्नगोत्राणां भार्गक्वैतहव्यावेतसेति प्रवरैक्यादतस्तत्र विवाहप्रसक्तौ तद्व्यवच्छेदायासमानार्षामित्युक्तम् । कचित्प्रवरभेदेऽपि गोत्रैक्यम् । तद्यथा-आङ्गिरसाम्बरीषयौवनाश्वेति । मान्धात्राम्बरीषयौवनाश्वति ।
१ के. वर्षेधि' । २ घ. साचेत ।
Aho! Shrutgyanam