SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निबन्धः। १३१ अथ विवाहप्रकरणम् । वराहः-स्त्रीरत्नभोगोऽस्ति नरस्य यस्य निःस्वोऽपि मा प्रत्यवनीश्वरोऽसौ । राज्यस्य सारोऽशनमङ्गनाश्च तृष्णानलोद्दीपनदारु शेषम् ॥ १ ॥रत्नहेमाद्यलंकारा भोगा मृगमदादयः । व्यर्थीः सर्वे न राजन्ते हाणि स्त्रियमन्तरा ॥२॥ नारदः-सर्वाश्रमाणामाश्रयो गृहस्थाश्रम उत्तमः। यतस्तदपि योषायां शीलवत्यां स्थितस्ततः ॥३॥ तस्याः सच्छीललब्धिस्तु सुलग्नवशतः खलु । पितामहोक्तां संवीक्ष्य लग्नशुद्धिं प्रवच्म्यहम् ॥ ४ ॥ शौनक:--प्रमदाफलस्य सदसज्जातकविहितस्य यदि न नाशोऽस्ति । तत्किमनेन बहुना पुनरप्युद्वाहलमेन ॥५॥ अथ तु विलग्नाधीना सिद्धिनियमेन भवति दंपत्योः । प्राक्सुकृतसंचयफलं तच्च नृणां चैव वक्तव्यम् ॥ ६॥ येन तु यत्प्राप्तव्यं तस्य विधानं सुरेश इन्द्रोऽपि । यः साक्षानीतिज्ञः सोऽपि न शक्तोऽन्यथा कर्तुम् ॥ ७ ॥ ननु जन्मकाले शुभाशुभफलं गदितं तचेत्प्रमाणं ततो यदि अन्मफलमशुभमस्ति तत्कथं विवाहलग्नेन शुभं भवति चेद्विवाहलग्नप्राबल्यं तज्जातकादीनामानर्थक्यप्रसङ्गः । सत्यं यजातके फलमुक्तं तस्य विवाहे तत्कालग्रहवशेनाऽऽधिक्यं न्यूनता च भवति । तथाचोक्तं बृहज्जातके-पाकस्वामिनि लग्नगे सुहृदि वा वर्गेऽथ सौम्येऽपि वा प्रारब्धा शुभदा दश। त्रिदशपड्लाभेषु वा पाकपे । मित्रोच्चोपचयत्रिकोणमदने पाकेश्वरस्य स्थितश्चन्द्रः सत्फलबोधनानि कुरुते पापानि चातोऽन्यथा ॥ ८॥ अत्र जन्मफलं शुभमपि दशाप्रवेशकालचन्द्रस्य स्थानवशाच्छुभतरमुक्तम् । पापदृष्टतत्कालचन्द्रवशाजन्मफलं दुष्टमशुभतरमुक्तम् । एवं जन्मफलमशुभमपि विवाहलग्नवशाच्छुभम् । शुभं तु जन्मफलं विवाहलग्नशुभग्रहसंस्थानवशादतीव शुभमिति सर्वमनवद्यम् ।। इति लग्नप्रामाण्यम् । अथ विवाहे कुलविचारः। सापिण्डयं गोत्रशुद्धिं च शीलं सामुद्रिकाणि च । जातकादिभमेलं च वीक्ष्य वाग्दानतः पुरा ॥१॥ तत्र कुलपरीक्षा मिताक्षरायां--वध्वा वरस्य वा तात: कूटस्थाद्यदि सप्तमः । पञ्चमी चेत्तयोर्माता तत्सापिण्डयं निवर्तते ॥ २ ॥ मनुःलेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डमागिनः । पिण्डदः सक्षमस्तेषां सापिण्डयं साप्तपौरुषम् ॥ ३॥ संतानं भिद्यते यस्मात्पूर्वजादुभयत्र च । तमादाय गणये १ क. घ. गणेद्धी। Aho ! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy