SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निबन्धः । १२९ सुखसंस्कारमि(इ) ष्यते || ७ || शुक्लपक्षे शुभाः सर्वे विद्यारम्भे दिनं तथा । विहायार्थं त्रिभागं वा परं कृष्णेऽपि शस्यते ॥ ८ ॥ यदा चन्द्रो बुधांशस्थो बुधजीवसितेक्षितः । निषिद्धेऽपि च मासादौ विद्या शस्तेति केचन ॥ ९॥ aartaar वर्ज्या विद्यारम्भेऽभौमयोः । लव सुविद्याप्तिः स्थिरे जाड्यं चरे भ्रमः ॥ १० ॥ बृहस्पतिः - प्रथमा च द्वितीया च तृतीया पञ्चमी तथा । दशमी द्वादशी चैव एकादश्यस्तु पूजिताः ॥ ११ ॥ त्रयोदशी सप्तमी च कदाचिच्छुभ तिथी । यदा चन्द्रो बुधांशस्थो बुधजीवसितेक्षितः ॥ १२ ॥ त्रिषडायगताः पापास्त्रिकोणे कण्टके शुभाः । विद्यारम्भे शुभाः प्रोक्ताः सक्रूरं पञ्चमं त्यजेत् || १३ || विशेषादबुधवर्गेषु बुधदृष्टे बुधोदये । बुधवारे च होरायां विद्या शस्तोदिते विदि ॥ १४ ॥ एषु सर्वेषु शस्तेषु शुभं स्यादितरेषु च । अपवादो न चेत्तत्र योगान्वक्ष्याम्यभीष्टदान् ||१५|| हस्ते बुधशके युक्ता यदि भान्विन्दुसोमजाः । सोमवारे रवौ लग्ने योगः सारस्वतो भवेत् ॥ १६॥ अत्युच्चस्थे बुधे लग्नेऽपार्थो नाऽऽद्यत्रिभागके । भनौ तत्सौम्यवारे च योगो वागीश्वराह्वयः ।। १७ ।। हस्ते बुधांशकस्थौ चेद्बुधेन्दू लग्नगौ यदा । बुधवारे च होरायां योगः सारस्वताभिधः || १८ || इन्द्वर्कज्ञदिने वारे नाथ बुधांशके । हस्तक्षे च गता ह्येते योगः सारस्वताह्वयः ।। १९ । बुधोत्तमे गुरोरंशे केन्द्रगा ज्ञार्कभार्गवाः । त्रयोदश्यां यमे लग्ने योगः सारस्वताह्वयः ॥ २० ॥ कर्किणः पञ्चमे भागे गुबुदयगे सति । गुरोवरे च होरायां विद्यायोगोऽयमुत्तमः ||२१|| प्रारम्भे सर्वविद्यानामनध्यायं विवर्जयेत् । नष्टं बुधं च विबलं लग्नं क्षीणं विधुं तथा ।। २२ ।। इति विद्यारम्भः । अथानध्यायाः । प्रतिपत्पूर्णिमामा च चतुर्दश्यष्टमी तथा । अनध्यायाः सोपपदा युगमन्वादयस्तथा ।। १ ।। नारदः - अयने विषुवे चैव शयने बोधने हरेः । अनध्यायस्तु कर्तव्यो मन्वादिषु युगादिषु ॥ २ ॥ कार्तिके शुलनवमी त्वादिः कृतयुगस्य च । त्रेतादिर्माधवे शुक्ला तृतीया पुण्यसंज्ञिता || ३ || कृष्णा पञ्चदशी माघे द्वापारादिरुदाहृता । कल्पादिः स्यात्कृष्णपक्षे नभस्ये च त्रयोदशी || ४ || द्वादश्यूर्जे शुक्लपक्षे नवम्याश्वयुजे सिते । चैत्रे भाद्रपदे चैव तृतीया शुक्रसंज्ञिता ॥ ५ ॥ एकादशी सिता पौषेयाषाढे दशमी सिता । माघे च सप्तमी शुक्ला नमस्येs १७ Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy