________________
ज्योसिनिबन्धः।
१२७ पञ्चमी यदा हस्तेन युज्यते तदा वेत्यर्थः । एवं कालत्रयमुक्त मपति । पत्रभगवान् – अथातः श्रावणे पासे श्रवणर्फयुते दिमे । श्रावण्यां श्रावणे मासि पञ्चम्याँ हस्तसंयुते ॥ ३ ॥ दिवसे विदधीतैतदुपाकर्म यथोदितम् । अध्यायोपाकृति कुर्यात्तत्रौपासनवह्निना ॥ ४ ॥ अत्रोक्तश्रवणनक्षत्रे काशीखण्डे विशेषमाह ज्यासः--धनिष्ठासंयुते कुर्याच्छावणे कर्म यद्भवेत् । तत्कर्म सफलं ज्ञेयमुपाकरणसेंज्ञितम् ॥ ५ ॥ श्रवणेन तु यत्कर्म तूत्तराषाढसंयुतम् । संवत्सरकतोऽध्यायस्तत्क्षणादेव नश्यति ॥६॥ तत्र विरोधमाह गार्ग्य:--पर्वण्यौदयिके कुर्युः श्रावणे तैत्तिरीयकाः। बचाः श्रवणे कुर्युग्रहसंक्रान्तिवर्जिते ॥ इति ॥७॥ अत्र कालविरोधमाह बृहन्मनुः-अत्रार्धरात्रादवाक्चेद्ग्रहः संक्रममे (ए) व वा। नोपाकर्म तदा कुर्याच्छावण्यां श्रवणेन वा ॥ इति ॥ ४॥ कात्यायनोऽपि-- अर्धरात्रादधस्ताच्चेसंक्रान्तिग्रहणे तदा । उपाकर्म न कुर्वीत परतश्चेन्न दोषकत् ॥९॥ भृगुस्तु-प्रेते राजाने राष्ट्र वा परचक्रादिपीडिते । अनुप्तबीजेऽनावृष्टयां भोपाकुर्याद्विचक्षणः ॥ इति ॥ १० ॥ वसिष्ठोऽपि-अनुप्तबीजे नृपतौ विनष्टे शभे मृते राष्ट्रसमाकुले च । उत्सर्जनोपाकरणे न कार्ये ग्रस्तेन्दुसूर्ये गुरुरस्तयाते ॥ ११ ॥ गुरावित्यर्थः । यत्तु वचनं वेदोपाकरणे प्राप्ते कुलीरे संस्थिते रवौ । उपाकर्म न कर्तव्यं कर्तव्यं सिंहयुक्तके । कर्कटे संस्थिते भानावुपाकुर्यात्तु दक्षिणे ॥ १२॥ एतत्सर्व विचार्य श्रावणभाद्रपदयोरन्यत्तरस्मिन्मासे कर्तव्यम् । तदुक्तं स्मृत्यर्थसारे-श्रवण आदौ घटिकाचतुष्टयमभिजिन्नक्षत्रांशं( शो )वयं (?) वा । श्रवणखण्डे सति-धनिष्ठासंयुतं ग्राह्यं नोत्तराषाढसंयुतम् । इस्तनक्षत्रं प्रयोगपर्याप्तं ग्राह्यम् । सूतकादिविघ्नसंभव ओषध्युत्पत्त्यभावेऽपि च । श्रावणभाद्रपदयोरेकस्मिन्दिने ग्रहसंक्रान्तिवर्जिते कार्यम् । कर्मणो न लोपो नोत्कर्षश्चेति । यत्तुं सायणीयकारवचनं-श्रावणस्य तु मासस्य पूर्णिमायां द्विजन्मनाम् । आषाढयां प्रौष्ठपद्यां वा वेदोपाकरणं स्मृतम् ॥ इति ॥१३ ॥ तदेतच्छाखान्तरविषयम् । तद्वार्षिकमित्याचक्षत इति गृह्योक्तसमाख्याबलात् । शुक्रे मूढेऽप्युपाकृत्य विद्यावित्तविनाशनस् । आयुःक्षयमवाप्नोति तस्मात्कर्म विवर्जयेत् ॥ १४ ॥ कश्यपोऽपि-गुरुशुक्रतिरोधाने वर्जयेच्छृतिचोदितान् । इत्याह भगवानत्रिः श्रवणं तु विशेषतः ॥ १५ ॥ इत्येतत्पथमोपाकर्मविषयम् । तथोक्तं संग्रहे -गुरुभार्गवयोौढये वक्रे वा वार्धकेऽपि वा । तथाऽधिमाससंस्पर्शे मलमासादिषु द्विजः ॥ १६ ॥ प्रथमोपाकृतिर्न स्यात्कृतं कर्म विनाशकृत् ।। इति ॥ १७॥ स्मृतिसारसमुच्चयेऽपि-यज्ञोपवीतं कतेव्यं श्रावणे गुरुशक्रयोः ।
१ क. ख. स्पिन्दिने का । २ च. 'युःक्षेपम ।
Aho! Shrutgyanam