________________
१२६
श्रीशिवराजविनिर्मितोस्मिन्नती वेदार्थविद्भवेत् ॥ १०७ ॥ दशमायोदये याताः: शुक्रभानुयुधाः क्रमात् । चन्द्रे शुभांशगे शुद्धे रन्ध्रे विद्यार्थवान्बटुः ॥ १०८ ॥. बुधार्किशुक्राः कर्मायलग्नगाः क्रमशो यदि । जीवशुक्रबुधाः केन्द्रे बलिनोऽर्केन्दुवेदपाः॥१०९॥ उपनीतस्तदा शिष्यो दीर्घायुर्यज्ञकृद्भवेत् । एकोदरप्रसूतानामेकस्मिन्मण्डपेऽहनि । एकलग्नेऽपि भिन्नांशे व्रतं महति संकटे ॥ ११० ॥ वसन्तसमये दद्यादब्दे गर्भाष्टमेऽष्टमे । मेखला जन्ममासेऽपि जन्मभे च तिथौ तथा ॥११॥ विधिनाऽन्यायसामीप्यनयनं तूपनायनम् । एतत्प्रधानं सावित्रीवाचनं वाऽन्यदङ्गकम् । ११२।। मुहूर्तसमये प्रैषः स्वसूत्रोक्तो विधीयते । पुनरंशे शुभे ब्रूयाद्गायत्रीं सति संभवे. ॥११३ ॥ भाष्यकारैः स्मृतेर्वाक्यान्मुख्यत्वं गुरुदर्शने । उक्त तस्मान्मुहूर्तोऽस्य युक्त एव न संशयः ॥ ११४ ॥
इत्युपनयनम् ।
अथोपाकरणम् । प्रयोगपारिजाते--अध्यायानामुपाकर्म श्रावण्यां श्रवणेन तु । तेन्मासे हस्तयुक्तायां पञ्चम्यां वा तदिष्यते ॥ १॥ अवृष्टयौषधयस्तस्मिन्मासे तु न भवन्ति चेत् । तदा भाद्रपदे मासि श्रवणेन तु कारयेत् ॥ २ ॥ इदमत्र गृह्यम्अथातोऽध्यायोपाकरणमोषधीनां प्रादुर्भावे श्रवणेन श्रावणस्य पञ्चम्या हस्तेन वेति । अस्यार्थः- अध्ययनमध्यायस्तस्योपाकरणं प्रारम्भो येन कर्मणा तदध्यायोपाकरणम् । अतःशब्दो हेत्वर्थः । यस्माद्ब्रह्मयज्ञो नित्योऽतोऽध्यायोपाकरणं ब्रम इति । तस्य कालमाह -ओषधीनामिति । श्रावणमासस्य श्रवणेन कर्तव्यम् । ओषधीनां प्रादुर्भाव इति वचनं यदा श्रावणे प्रादुर्भावो न स्यात् तदा भाद्रपदे श्रवणेन कर्तव्यमित्येवमर्थम् । वृष्टयपकर्षे कर्मापकर्षशछैच नास्ति । यदा भाद्रपदादुत्कर्षो भवति तदाऽपि कर्मोत्कर्षशङ्का नैव कार्या। तद्वार्षिकमित्याचक्षत इतिवक्ष्यमाणसमाख्याबलात् । वर्षासुः क्रियत इति वार्षिकम् । श्रावणभाद्रपदौ हि मासौ वर्षतुः । श्रावणे प्रादुर्भावाभावे कर्माकरणशकाऽप्यनेनैव निरस्ता। श्रवणेनेति श्रवणेन युक्ते काल इत्यर्थः । 'नक्षत्रेण युक्तः काल' इत्यनेनाण् । 'लुबविशेषे' इति तस्य लुप् । 'नक्षत्रे च लुपि' इति सप्तम्यर्थे तृतीया । नक्षत्रशब्देषु सर्वत्रैवं योज्यम् । पञ्चम्यामित्यत्रापि श्रावणस्येति संबध्यते । मध्यगतस्य विशेषाभावात्मयोजनवत्त्वाच्च । श्रावणस्य मासस्य
१ ख. तस्मात्संग्रहयु।
Aho ! Shrutgyanam