________________
१२५
ज्योतिर्निबन्धः। स्यत्र ग्रहः कोऽपि न दोषकृत् । शुभदृष्टः शुभो यस्मात्सौम्यवर्गे यदि स्थितः
॥ ८५ ॥ व्ययस्थोऽर्कः कुजार्किभ्यां दृष्टो विद्या हरेरटोः। शुभदृष्टो न दोषाय लथेन्दुर्गुरुरब्रवीत् ।। ८६ ॥ श्रीपतिः-त्रिषट्खगोऽस्त्रिधनास्तकर्मगश्चन्द्रनिषष्ठाः शनिराहुभौमाः । सर्वे च लाभे द्वित्रिकोणकेन्द्रगाः शुभाः शुभाः स्युव्रतबन्धकाले ॥ ८७ ॥ रन्ध्रान्त्यारिगतः शक्रो लग्नेशो वा पडष्टगः । चन्द्रो लग्नारिरन्ध्रस्थों बटोः प्राणापहारकः ।। ८८ ॥ शुक्रश्च सर्वभावस्थः सर्वसंपत्समद्धिदः । षष्ठाष्टमस्मरान्मुक्त्वा शिशोर्लग्नाद्विजन्मनः ॥८९॥ मौजीबन्धे विशेषेण प्राग्लग्नं पञ्चम तथा । भाव्यं क्रूरग्रहर्मुक्तं भृगुराह तथाऽष्टमम् ॥ ९० ॥ मौजीपटले--शुभदो बलवान् भानुर्लग्नगो दशमस्तथा। सर्वशाखाधिपो यस्मात्सर्वेषां व्रतबन्धने ॥९१॥ सर्वशाखाधिपो भानुः केचिदूचुमहर्षयः । तस्माद्गत्यन्तराभावे लग्नस्थोऽर्कः प्रशस्यते ॥ ९२ ॥ नारदः-स्वोच्चसंस्थोऽपि शीतांशुतिनो यदि लग्नगः । तं करोति शिशुं निःस्व सततं क्षयरोगिणम् ॥९३ ॥ ब्रहस्पतिः-चन्द्रोदयेऽभिशस्तः स्यात्क्षयरोगी सितेतरे । सिते पक्षे भवेद्यज्वा स्वभे तुङ्गे विशेषतः ॥१४॥ लग्ने हिमांशुदि शुक्लपक्षे स्तम्भप्रतिष्ठाव्रतबन्धकाले । आयुःसहस्रं हि निकेतनानां नृणां संहावृत्तिविवृद्धिहेतुः ॥ ९५ ॥ संग्रहे-लग्नस्थितेषु रन्धेषु पापेषु मरणं बटोः। सौख्यं स्यात्रिषडायेषु जडत्वमितरेषु च ॥ ९६ ॥ अरन्ध्रारिगताः श्रेष्ठाः शुलाः सर्वत्रगा व्रते । व्ययेऽपि न शुभः शुक्रस्तथाऽब्जोऽर्यष्टलग्नगः॥९७॥ अनिष्टस्थानगोऽप्यत्र ग्रहः कोऽपि न दौषकृत् । सद्वर्गे शुभदृष्टो वा स्वोच्चे स्वस्थे विशेषतः ।। ९८ ॥ स्फूर्जितं केन्द्रगे भानौ व्रतिनो वंशनाशनम् । कूजितं केन्द्रगे भौमे शिष्याचार्यविनाशनम् ॥ ९९ ॥ करोति रुदितं केन्द्रसंस्थे मन्देऽतुलान्गदान् । लग्नाकेन्द्रगते राँही रन्ध्र मातविनाशनम् ॥ १०० ॥ उग्रकेन्द्रगते केती वृत्तवित्तविनाशनम् । पञ्चदोषेतरल्लग्नं शुभदं चोपनायने ॥ १०१ ॥ विद्या प्राप्तां नाशयेतां मन्दभौमौ द्वितीयगौ । अन्योन्यमथवा दृष्टौ द्वादशस्थौ तु बन्धदौ ॥ १०२ ॥ यथोक्तसमयालाभे योगान्वच्मि शुभप्रदान् । द्विजन्मकालसंभूतान्वसिष्ठाङ्गिरसोक्तितः ॥ १०३ ॥ जीवे केन्द्र त्रिकोणे वा भानौ शुक्रेऽथवा व्यये । धने झै चोपनीतस्तु वेदविद्याविशारदः ।। १०४ ॥ लग्नार्थभ्रातृगे शुक्रे जीवे कोणार्थकण्टके । त्रिषडेकादशे क्रूर व्रती भवति धार्मिकः ॥ १०५ ॥ गुरौ केन्द्रे भषे भानौ चन्द्रे शुभनवांशगे । शुभग्रहदशायुक्ते चिरायुर्धनवान्भवेत् ॥ १०६ ॥ भृगौ मीने वृष वाऽपि जीवे केन्द्रत्रिकोणगे । कर्किचापझषस्थेऽ
१ क. °सहोवृ । २ क. चारवि । ३ च. ही वृत्त वित्ताय । ४ ख. ग. केद्धानी
Aho! Shrutgyanam