SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निवन्धः । अथोपनयनम् । अथोपनयनं वक्ष्येद्विजानां शुभकाङ्क्षिणाम् । त्यजेत्तत्र महादोषांस्त्याज्यप्रकरणोदितान् ॥ १ ॥ ज्योतिर्विदुक्तसमये कुमारमुखदर्शनम् । तत्त्पनय पाहुयाज्ञिकास्तत्त्वदर्शिनः || २ || जाताधिकाराज्जन्मादावष्टमेऽब्दे भवेदिदम् । कुमाराधिकृतेश्वापि न स्त्रीणामिदमुच्यते || ३ || वैवाहिक विधिः स्त्रीणामौपनायनिकः स्मृतः । पतिसेवा गुरौ वासो गृहस्थाग्निपरिक्रिया ॥ ४ ॥ नारद:आधानादष्टमे वर्षे जन्मतो वाऽग्रजन्मनाम् । राज्ञामेकादशे मौजीबन्धनं द्वादशे विशाम् || ५ || अत्राऽऽचार्यः स्मृतिरूपेणाऽऽहं - गर्भावादे पञ्चमे सप्तमेऽपि वा । द्विजत्वं प्राप्नुयाद्विमो वर्षे त्वेकादशे नृपः । वैश्यश्व द्वादशे वर्षे विप्राणां षोडशावधि ॥ ६॥ यस्मिन्वर्षे गर्भो भूत्वा शेते स गर्भ इति हरदत्तः । गर्भसहचरितो गर्भशब्देनोच्यत इति भारुचिः । सोऽष्टमो यस्येति बहुव्रीहिः । पष्ठीसमासस्य पूरणप्रत्ययान्तेन निषेधात् । जन्मतः पञ्चमे वर्षे वेदशास्त्रविशारदः । उपनीतो यतः श्रीमान्कार्य तत्रोपनायनम् ॥ ७ ॥ * संग्रहे— ब्रह्मवर्चसमोजश्च विद्याऽऽयुः श्रीर्यशः सुखम् । विमादेरुपनीतस्य पञ्चमादन्दतः फलम् || ८ || नृपजातिजिना १६ । १८ । २४ दान्तं नातिकालस्तत: परम् । पातित्यं स्यादग्रजादेवत्यस्तोमो विशोधनम् ॥ ९ ॥ अग्रजा बाहुजा वैश्याः स्वावधेरूर्ध्वमब्दतः । अकृतोपनयाः सर्वे वृषला इव ते स्मृताः ॥ १० ॥ नारद: - बालस्य बलहीनोऽपि शान्त्या जीवो बलप्रदः । यथोक्तवत्सरे कार्यमनुक्ते नोपनायनम् || ११ || बृहस्पतिः - झपचापकुलीरस्थो जीवोऽप्यशुभगोचरः । अतिशोभनतां दद्याद्विवाहोपनयादिषु || १२ || व्रते जन्मत्रिखारिस्थो जीवोऽपीष्टोऽर्त्तनात्सकृत् । शुभोऽतिकाले तुर्याष्टव्ययस्था द्विगुणार्चनात् ॥ १३ ॥ अशुभ ग्रहाः सर्वे शुभगोचरगा अपि । शान्तिभावाच्छमं नैव यान्त्यब्दः कालमृत्युक्त् ॥ १४ ॥ तस्माद्गृहेभ्यः कालत्वाद्वली संवत्सरः स्मृतः । शान्तिर्ग्रहाणां कर्तव्या न तु संवत्सरस्य सा ॥ १५ ॥ संग्रहे - व्रतकाले तु संप्राप्ते यस्य शुद्धिर्न लभ्यते । कृत्वाऽच शक्तितः पश्वाद्विधेयं मञ्जिबन्धनम् ॥ १६ ॥ शुद्धिर्न विद्यते यस्य वर्षे प्राप्तेष्टमे यदि । चैत्रे मीनगते भानौ १२१ 1 * घपुस्तक इदमधिकम् । विष्णुः षष्ठे तु धनकामस्य विद्याकामस्य सप्तमे । अष्टमे सर्वकामस्य नवमे कान्तिमिच्छतः ॥ मनुः - ब्रह्मवर्चसकामस्य कार्यै विप्रस्य पञ्चमे । सप्तमे चाष्टमे वर्षे नवमे दशमे तथा । एकादशे द्वादशे षा ह्युपनेया द्विजातयः । ब्रह्मवर्चसमायुष्यं तेजोपायं तथैन्द्रियम् । पशून्कामयमाना वै प्राप्नुवन्ति यथाक्रमम् । १६ Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy