SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निबन्धः। ११३ विन्यसेच्छिशुम् ॥ ३ ॥ करत्रये वैष्णवरोहिणीषु दितिद्वये चाऽऽश्विनकध्रुवेषु । कुर्याच्छिशूनां नृपतेश्च तद्वदान्दोलनं वै सुखिनो भवन्ति ॥ ४ ॥ * त्रयोदशस्तु कन्याया न नक्षत्रविचारणा । अन्यस्मिन्दिवसे चेत्स्यात्तिर्यगास्ये प्रशस्यते ॥५॥ इति खटारोहणविधिः। अथ दुग्धपानविधिः। नृसिंहः-एकत्रिंशे दिने चैव पयः शवेन पाययेत् । अन्नप्राशननक्षत्रे दिवसोदयराशिषु ॥१॥ नक्षत्रे मासि संपूर्णे जातः तु विशेषतः । मासान्ते दुग्धपानं स्यात्पश्चात्काले सुशोभने ॥ २॥ उत्तरात्रयहस्ताश्च त्वाष्ट्रवैष्णववासवाः । पौष्णाश्चिन्यौ मघा स्वातिर्वारुणादितिजीवभम् ॥ ३ ॥ रोहिण्यैन्दवमैत्राश्च दुग्धपाने शिशोः शुभाः । षष्ठी रिक्ताऽष्टमी दर्शवा विष्टिः स्थिराणि च॥४॥ वास्त्वशुभयोगाश्च कृष्णे चान्त्यत्रिकं विना । अधोमुखानि वानि मीनाजालिगृहाणि च ॥ ५॥ जीवशुक्रेन्दुसौभ्यानां वारवर्गे क्षणाः शुभाः । शुभानां राशयः श्रेष्ठा: विशेषाच्छुभकर्मणि ॥ ६॥ आया ११ रि ६ भ्रातृगाः ३ पापा विशेषेण शिशोः शुभाः । पूर्वाह्ने चापि मध्याह्न कुर्याद्राशि विवर्जयेत् ॥ ७॥ योगिनीराहुरुद्रादिमुखं चैव विवजयेत् ॥ ८॥ योगिनीलक्षणं तु प्रागेवोक्तम् । अथ चरयोगिनी। इन्द्रवायुयमशूलपाशिना बार्हिषश्रवणरक्षसां क्रमात् । अर्धयाममनुवासरादितो दिक्षु संभ्रमति योगिनी चरा ॥ १॥ अथ राहुलक्षणम् । गुरुभान्वोर्वसेत्याच्यामिन्दौ शुक्रे च दक्षिणे । कालराहुः कुजे प्रत्यगुत्तरे बुधमन्दयोः ॥१॥ अथ रुद्रलक्षणम् । हरिसोमवह्निराक्षसयमवरुणानिलहरालयेष्वेवम् । उदयादि भ्रमति सदा घटिकारुद्रो महाप्रबलः ॥ १॥ इति दुग्धपानम् । * पथमिदं व पुस्तके । १ घ. वरेवतीषु । २ क. व. “न्दोलितावै । ८ Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy