________________
११०
श्रीशिवराजविनिर्मितो
केषु कार्येष्वेतानि शुभानि धिष्ण्यानि ॥ ५ ॥ कारिकायां - पुंनक्षत्राणि चैतानि तिष्यो हस्तः पुनर्वसुः । अभिजित्प्रोष्ठपाञ्चैव अनूराधाश्वियुक्श्रुतिः ||६|| वसिष्ठः-सार्पाचतुष्कं वसुवारिरुद्रत्वाष्ट्रत्रयं विश्वयमान्त्यशक्राः । खीलिङ्गन्ताराः श्रवणेन्दुमूलतारा न पुंसः पुरुषाः परे स्युः ॥ ७ ॥ बृहस्पतिः -- कुलीरं मिथुनं कन्यां हित्वा शेषाः शुभावहाः । अनुक्तमपि राशौ तु शुभं स्याच्छुभवीक्षिते ॥ ८ ॥ कन्यायां न प्रशंसन्ति शुभदृष्टे युतेऽपि वा ॥ ९ ॥ नृसिंह: - रिक्तां च पर्व नवर्मी त्यक्त्वा. पुंसवने शुभाः ॥ १० ॥ वसिष्ठः - अष्टमस्थानगाः सर्वे नेष्टाः स्युस्ते शुभावहाः । एवं. सम्यङ् निरीक्ष्यैव कुर्यात्पुंसवन क्रियाः ॥ ११ ॥ बृहस्पतिः - गुरुशुक्रबुधेन्दूनां द्रेष्काणदिवसांशकाः । तेषामुदयहोरा च पुंसवेऽतिशुभावहा ।। १२ ।। कारिकायांत - तृतीये गर्भसंस्कारो मासि पुंसवनं भवेत् । आद्यगर्भो न विज्ञातस्तृतीये मासि वै यदि । चतुर्थे मासि कर्तव्यमाद्यगर्भे स्मृतो विधिः ।। १३ ।। इति पुंसवनम् ।
अथ सीमन्तोन्नयनम् ।
नारद: -- चतुर्थे मासि षष्ठे वाऽप्यष्टमे वा तदीश्वरे । बलोपपन्ने दंपत्योश्चन्द्रताराबलान्विते ॥ १ ॥ कार्ष्णाजिनि :- गर्भलम्भनमारभ्य यावता प्रसवस्तदा ॥ सीमन्तोन्नयनं कुर्याच्छङ्कस्य वचनं यथा ॥ २ ॥ मासश्चात्र सौरसावनयोरन्यतरो गृह्यते । कालविधाने-चतुर्थषष्ठाष्टममासभाजि सौरेण गर्भे प्रथमं विधेयम् । सीमन्तकर्म द्विजभामिनीनां मासेऽष्टमे विष्णुवलिं च कुर्यात् ॥ ३॥ वसिष्ठः - चतुर्थे सावने मासि षष्ठे वाऽप्यथवाऽष्टमे ॥ ४ ॥ नारदः - अरिक्तापर्वदिवसे कुजजीवा -- 'कवासरे । तीक्ष्णमिश्रोग्रवज्येषु पुंलग्ने पुंनवांशके ॥ ५ ॥ शुद्धेऽष्टमे जन्मलग्नात्तयोर्लग्ने न नैधने । शुभग्रहयुते दृष्टे पापखेटयुतेक्षिते ॥ ६ ॥ पचेष्टिके चतुर्भिर्वा इष्टेऽर्केन्द्रीज्यपूजकैः । स्त्रीणां तु प्रथमे गर्भे सीमन्तोन्नयनं शुभम् ||७|| कारिकायां - पुंनक्षत्रे सिते पक्षे त्वन्वाधानादि पूर्ववत् । पुंनक्षत्राणि चैतानि तिष्यो हस्तः पुनर्वसुः ॥ ८ ॥ अभिजित्प्रोष्ठपाच्चैव ह्यनुराधाश्वयुक् तथा । ऋक्षस्य मध्यमे पादद्वये कर्मेदमिष्यते ॥ ९ ॥ नारद:-: :- शुभग्रहेषु धीधर्म केन्द्रेष्वरिभवत्रिषु । पापेषु सत्सु चन्द्रेऽन्त्यनिधनाद्यरिवर्जिते ॥ १० ॥ क्रूर ग्रहाणामेकोऽपि लग्नाद-न्त्यात्मजाष्टगः । सीमन्तिनीं वा तद्गर्भं बली हन्ति न संशयः ॥ ११ ॥ नृसिंहः -
* श्लोकद्वयं खषपुस्तकयोर्नास्ति ।
१ ६. विष्टिव ं । २ ख. 'इषेर्केद्विजपू'
Aho! Shrutgyanam