________________
१०८
श्रीशिवराजविनिर्मितोपाण्डुरे ॥ २९ ॥ पीते च स्वैरिणी प्रोक्ता गुञ्जाभे सुभगा भवेत् । सिन्दुराभे भवेत्कन्या रजःशोणितलक्षणम् ॥३०॥ गुरुशुक्र युते लग्ने प्रेक्षिते चात्र पुष्पजे। निद्यं फलं समस्तं तु नाशमेति शुभं भवेत् ॥ ३१ ॥ आरोग्यसोभाग्यवती च सोन्यवर्गेषु सा पुष्पवती च कन्या । दुःखामयानर्थविवादशीला वर्गेध्वसौम्येषु च दुर्मतिः स्यात् ॥ ३२ ॥ पुष्पं दृष्टं निन्दिते भे यदि स्याच्छान्ति कुर्यादङ्गनानां च पूर्वम् । तत्संयोगं वल्लभा वर्जयेयुर्यावद्भूयः शस्तभे चैव दृष्टम् ॥ ३३ ॥ शेषं विवाहवत्सर्वे पुष्पे लग्नादि चिन्तयेत् ॥ ३४ ॥ अलंकृतामार्तवसंयुतां च गेहे शुभे दीपयुते निवेशयेत् । तिलान्गुडापूपयुतं च पूगं स्त्रीभिश्च दद्याद्विजमत्र पूजयेत् ॥ ३५॥ आरोपयेदिमां तत्र पादुके शोभने ततः । पुण्याई वाचयित्वा तु ब्राह्मणान्पूजयेत्सुधीः ।। ३६ ॥ त्रिरात्रं तु सकृद्भुक्त्वा स्मृतिमोक्तैर्वतैर्युता । चतुर्थे संगवेऽतीते स्नात्वा स्त्री धर्ममाचरेत् ॥ ३७ ॥
इति प्रथमरजोदर्शनफलम् ।
अथ रजस्वलाशान्तिः । निन्धर्मतिथिवारादौ यत्र पुष्पं प्रदृश्यते । शान्ति समाचरेत्तत्र वक्ष्यमाणों शुभाप्तये ॥ १॥ गोमयेनोपलिप्ते तु स्थण्डिले समलंकृते । ग्रहाणां मण्डलं तत्र तवर्णेन कारयेत् ॥ २ ॥ मण्डलस्येशदिग्भागे ब्रीहिराशिं विनिक्षिपेत् । भाराचलप्रमाणं तु वस्त्रेण परिवेष्टयेत् ॥ ३॥ तस्योपरि न्यसेत्पभ्र दले कायष्टवर्गकम् । स्वराणां विन्यसेत्तत्र द्वे द्वे कोणे यथाक्रमम् ॥ ४ ॥ कर्णिकायां न्यसेद्वीजं हृल्लेखामन्त्रसंयुतम् । तस्योपरि न्यसेत्कुम्भ वस्त्रेण परिवेष्टितम् ॥ ५ ॥ गुडूचीबिल्वापामार्गपत्रपालाशसर्षपान् । दूर्वापल्लवसंयुक्तां सर्वौषधिशतावरोम् ॥ ६ ॥ सहदेवी विष्णुकान्तां हरिद्राचूर्णसंयुताम् । पञ्चपल्लवसंयुक्ते पञ्चरत्नसमन्विते ॥ ७ ॥ तस्मिन्कुम्भे समावेश्य इन्द्राणी मन्त्रमेव च । सवस्त्रप्रतिमां चैव तस्मिन्नावाहयेत्सुधीः ॥ ८ ॥ सर्वान्देवान्समभ्यर्च्य ापचारैश्च शोभनैः । आपोहिष्ठादिभिर्मन्त्रैरब्लिङ्गैमन्त्रयेत्ततः ॥९॥ समुद्रज्येष्ठां त्र्यम्बकं च विष्णुं रुद्रंजपेत्पनः । नमस्कार ततः कृत्वा ह्याचार्य सम्यगचेयेत् ॥ १०॥ ऋत्विग्भ्यो दक्षिणां दद्यात्तत्कुम्भेनाभिषेचयेत् । सवस्त्रप्रतिमां गां च ह्याचार्याय निवेदयेत् ॥ ११॥ प्रच्छादनपट दद्याततः शान्ति प्रयच्छति । यावच्छान्ति, प्रकुर्वीत तावत्ता नावलोकयेत् ॥१२॥ नारदः-निन्द्य
१ क. 'क्षितं शन पुजम् ।
Aho! Shrutgyanam