________________
ज्योतिर्निवन्धः। कोदितफलादपर सदादि तत्प्रत्ययः शकुनलग्ननिमित्तभायैः ॥ १३ ॥ श्रेष्ठं फलं शस्तदशाविपाके संशोधिते मध्यममष्टवर्गे । तिथीन्दुलग्नादिवले कनिष्ठं माङ्गल्यकार्येष्विति गर्ग आह ॥ १४॥ ज्योतिष्पक शे-दुष्टं जन्मफलं यत्र कर्मलग्नं शुभं भवेत् । मिश्रं तत्र समादेश्यं बुधमृत्युफलं विना ॥१५॥ प्रस्तुतस्य विरोधेन प्राभ्यः सर्वोऽप्यपक्रमः । वीणायां वाद्यमानायां वेदोद्गारो न जायते ॥१६॥ यथा तथैव दैवज्ञा जनाश्च स्वार्थमोहिताः। कर्मलने प्रवर्तन्ते जन्मप्रनपराङ्मुखाः ॥ १७ ॥ ज्योतिर्विवरणे-प्रमाणं जन्मकालोत्थं फलं सर्वत्र सर्वदा। कर्मलमफलं तत्र तदधीनं समादिशेत् ॥ १८ ॥ जन्मजे कर्मने वाऽपि फले दुष्टे 4कुर्वते । कार्यान्ते दुःखमायान्ति शकुन्ता इव पाशगाः ॥ १९ ॥ दैवं जन्मफलं ज्ञेयं कर्माङ्ग फलमुद्यमः । उभयोः सानुकूलत्वे सर्व सिध्यति नान्यथा ॥ २० ॥ केचिदैवात्स्वभावाच्च कालात्पुरुषकारतः । तथेदं जातकं सम्यग्भाव्यज्ञानप्रकाशकम् ॥ २१ ॥
इति जन्मलग्नकर्मलग्नयोः प्राधान्यविचारः।
अथ शास्त्रार्थशिष्टाचारमामाण्यविचारः । शास्त्रार्थादलवाञ्छिष्टाचारोऽत्र बहुसंमतम् । शिष्टाचारस्य कालेन विलुप्ताः श्रुतयो यतः ॥ १ ॥ श्रीपतिः-न शास्त्रदृष्टया विदुषा कदाचिदुल्लङ्घनीयाः कुलदेशधर्माः । मूलं हि तेषां च्युतवेदशाखाभूयानधर्मः स्थितिभनन्दोपः ॥२॥ कारिकायां--प्रमाणं ग्रामवचनं विवाहादौ तथाऽत्यये । यतः परम्परायातं धर्म विदन्ति ते खलु ॥ ३ ॥ गृह्यसूत्रे-ग्रामवचनं च कुर्युरिति सकलवृद्धाः स्त्रियः पूर्व पुरुषानुष्ठीयमानं परम्परायातं सदाचारं स्मरन्ति । संहिताप्रदीपे-शास्त्रोत्थितोऽर्थोऽपि न च प्रमाणं स्त्रीशद्रगोपा अपि यं वदन्ति । यथा हि भाण्डोत्कषणेन रात्रौ भवेत्पशूनां किल मूर्ध्नि पीडा ॥ ४ ॥ स्मृत्यन्तरे-- सोऽनुष्ठेयो भवेद्धर्मो यो लोकश्रुतिसंमत्तः । शास्त्रशिष्टविरुद्धस्तु धर्मस्त्याज्यो चुधैः सदा ॥ ५ ॥ कुलस्य देशस्य च चित्तवृत्तिर्न खण्डनीया विदुषा कदाचित् । यो लोकशास्त्रानमतः स धर्मो लोको बलीयाननयोविरोधे ॥ ६ ॥ न्यायमीमांसाया भट्टाचार्यैरुक्तं-तर्कोऽप्रतिष्ठः श्रुतयो विभिन्ना नासावृषिर्यस्य मतं न भिन्नम् । धर्मस्य तत्त्वं निहितं. गुहायां महाजनो येन गतः स पन्थाः
१ख वोऽप्ययः कमात् । य. वो पजन्मनः । २ घ. प्रवर्तते । ३ क. 'यंत्र वचः प्रयाणम् ।
Aho! Shrutgyanam