________________
१०४
श्रीशिवराजविनिर्मितोकालः पुनः स्मृतः । स एवोत्कृष्टफलदो ज्ञेयो नेवाऽऽयबाधकः ॥ १९ ॥ न्यायमीमांसायां--न हिंस्यात्सर्वभूतानि व्यापकोऽयं निषेधकः । न जातु ब्राह्मण हन्यादुत्कृष्टधर्मसूचकम् ॥२०॥तथातथाऽत्र विज्ञेया विकल्पेष्वखिलेष्वपि । व्यवस्था प्रोक्तदोषाणां फलनिर्देशकैबुधैः ॥ २१॥ ज्योतिष्प्रकाशे--बहुव्यापकमाचार्यैः सामान्यं समुदाहृतम् । अल्पव्यापी विशेषस्तु स एव बलवानिह ॥ २२ ॥ यद्विशेषेण सामान्यं हन्यते तद्विलुप्यते । नास्ति यत्र विशेषत्वं सामान्यं तत्र संश्रयेत् ॥ २३ ॥
इति संदेहे विचारः।
अथ जातकलग्नयोः प्राधान्यविचारः। संहिताप्रदीपे -प्रायेण वारक्षतिथीन्दुवीर्यैर्माङ्गल्यकर्माणि समाचरन्ति । विवाहमेकं तु विलनशुद्धया महत्त्वमस्यैव हि शोभनेषु ॥ १ ॥ सुखानि दुःखानि च सर्वदेहिनां भवन्ति पूर्वाचरितैः स्वकर्मभिः । विलग्नशुद्धिः किमितीह मृग्यते न केनचित्पूर्वकृतं निवार्यते ॥२॥ यज्जातकेन प्रसवेन दृष्टं तावत्प्रमाणं किमिहोदयेन। लग्नप्रमाणं यदि जातकं किं न निश्चयोऽस्मादद्वयमप्याकिंचित् ॥३॥ सर्वाणि कार्याणि शुभाशुभानि करोतु दैवात्तु फलस्य सिद्धिः । संपद्यते तस्य तथोदयाय शुद्धिर्यथा यस्य सदैव संपत् ॥ ४॥ नारदें:-स्वस्थे नरे:सुखासीने यावत्स्यन्दति लोचनम् । तस्य त्रिंशत्तमो भागनुटिरित्यभिधीयते ॥ ५॥ त्रुटेः सहस्रभागोऽथ लग्नकालः स उच्यते । ब्रह्मापि:तं न जानाति किं पुनः प्राकृतो जनः॥६॥ स कालोऽप्यन्यकालो वा पूर्वकर्मवशाद्भवेत् । निमित्तमात्रं दैवज्ञस्तद्वशान शुभाशुभम् ॥ ७॥ संहिताप्रदीऐ-इत्युक्तिरेषाऽऽगमनिन्दकानां न श्रद्दधेया(?) विदुपा कदाचित् । शास्त्राणि पूर्व रचितानि यानि महर्षिभिस्तानि कथं मृषा स्युः॥ ८॥ यथा पुराणागमसंहिताः स्युर्धर्मादिसिद्धयै बहवः प्रकाराः। प्रकारभेदोऽयमपीति किंचिद्वदन्ति पृच्छा जननादयादि (देः)॥९॥न देशकालव्यवसायवर्ज भवेत्फलाप्तिः सति चापि दैवे । तथा फले सत्यपि जातकस्य भवेत्फलाप्तिस्तिथिभोदयायैः ॥ १०॥ यद्यत्फलं जन्मनि जातकोक्तं विरोधिना तस्य फलेन युक्ता । निहन्ति लग्नेन्दुविशुद्धिराद्यं फलाविरोधेऽपि फलद्वयाप्तिः ॥ ११ ॥ यथाऽऽप्तवाक्यादपहाय दुष्टं मार्ग गतः साधु यथा सुखी स्यात् । तथा विरुद्धेऽपि च जातकोक्ते फले शुभाप्तिस्तनुभादिवीर्यात् ॥ १२ ॥ यत्पूर्वजन्मनि कृतं सदसच्च कर्म होरा तदीयफलपाकमिह व्यनक्ति । यज्जात
Aho ! Shrutgyanam