________________
१०२
श्रीशिवराजविनिर्मितो
वस्तुव्रतादिषु । ज्योतिःशास्त्रफलं सर्वे प्रस्फुटं बुचराश्रयम् ॥ २ ॥ तत्तु सम्यक्प्रकारेण प्रवक्तुं नैव शक्यते । सिद्धान्तानां तु सर्वेषां साम्यं नास्ति मिथो यतः || ३ || स्वयंभूरिनो रोमशः पौलिशाख्यो वसिष्टश्च सिद्धान्तवक्कार एते । महान्तोऽत्र पाराशराख्यश्च तद्वद्ववैरुच्यते सांप्रतं चाऽऽर्य - संज्ञः ॥ ४ ॥
अथास्य निर्णयः ।
योगा ग्रहाणां ग्रहणं रवीन्द्रोस्तिथेस्तु बीजं विधुदर्शनं च । नित्योदयास्तौ खलुखेटभानां युतिश्च तेषां खचरोदयास्तौ ॥ १ ॥ प्रत्यक्षसमया ह्येते येन पक्षेण, यत्र वै । स्फुटं दृक्तुल्यतां यान्ति तेन सर्वविनिश्चयः ॥ २ ॥ ज्योतिर्विवरणेयात्रोद्वाहप्रभृतिषु फलं स्पष्टखेटाश्रयं यत्तस्मात्तत्साधन इह बुधैर्भाषितेऽपि क्वचित्ते । स्पष्टा न स्युः परमपुरुषांशाविराल्लक्ष्यचारास्तस्मात्साध्या बहुविधमतैर्नैकपक्षाभिमानः ॥ ३ ॥ यस्मिन्देशे यत्र काले येन दृग्गणितैक्यकम् । दृश्यते तेन पक्षेण कुर्यात्तिध्यादिनिर्णयम् ॥ ४ ॥ तथा च पीयूषतरङ्गिण्याम् । अस्त्युच्चावचता क्षितेरत इमे स्वस्थानसंस्था ग्रहाः कापि कापि भवन्ति दूरनिकटे दृक्च-क्रचारादपि । दृश्यन्ते न समास्ततो बहुविधोक्तानां मतानां भवेद्यः सिद्धान्तदृगैक्यतः स्वनगरे तेनाखिलं साधयेत् ॥ ५ ॥ सौरभाध्ये -संसाध्य स्पष्टतरं श्रीजं नलिकादियन्त्रेभ्यः । तत्संस्कृतास्तु सर्वे पक्षाः साम्यं भजन्त्येव ॥ ६॥ ब्रह्मसिद्धान्तभाष्ये—–ध्यानग्रहोपदेशाद्वीजं ज्ञात्वा सुदैवज्ञः । तत्संस्कृतग्रहेभ्यः कर्तव्यौ निर्णयादेशौ ॥ ७ ॥
अथ सामान्यत आधुनिकमतमुच्यते ।
सान्ये सौरः क्षये ब्रह्मा तिथिवृद्धौ पराशरः । सर्वकर्मसु कः श्रेयान्वि धर्मे तु योऽधिकः ॥ १ ॥ हासत्वाच्च तिथेर्भुक्तेः शीघ्रत्वात्कालनिर्णयः । कपक्षेणान्यथाऽऽर्येण निर्णयोऽत्र विधीयते ॥ २ ॥ ज्योतिर्विवरणे - पितामहा
२
दर्यः पुण्याः क्रियाकालविनिर्णयः । स्मृतिरार्यभटो न स्यात्तस्माच्च तदुपे - क्षितः (?) || ३ || ज्योतिःशास्त्रमिदं पुण्यं प्राहुर्नयविदो बुधाः । स्वतः प्रामाण्यमस्यास्ति सत्यं प्रत्यक्षतो यतः ॥ ४ ॥ आर्षेयं पौरुषं वाऽपि शास्त्रं दृक्सिद्धिमाश्रयेत् । यथोत्तमाज्जघन्याद्वा प्राप्तं रत्नं हितं भवेत् ॥ ५ ॥
१. 'थार्थेन साम्येऽर्केण वि । २ क. नटो |
Aho! Shrutgyanam