________________
ज्योतिर्निबन्धः।
१०१ विवाहे जन्मभं स्त्रीणां वर्जनीयं प्रयत्नतः । नैव पुंसामिह प्राहुर्योतिनेयविदो बुधाः ॥ ३ ॥ नारद:-पट्टबन्धनचोलान्नप्राशने चोपनायने । शुभदं जन्मनक्षत्रमशुभं त्वन्यकर्मणि ॥ ४ ॥ चूडाबन्धनशब्देन केशवन्धो न तु क्षौरकर्म । राजमार्तण्ड:-वसन्तसमये दद्यादब्दे गोष्टमेऽष्टमे । मेखलां जन्ममासेऽपि जन्मभे वा तिथी तथा ॥ ५ ॥ जन्मकालोत्थिता त्याज्या शुभे चान्द्रमसी कला । नेतरेत्याहराचायों वराहमिहिरादयः॥ ६ ॥ + शार्ङ्गधरः-- मेधावी मेखलादाने जन्ममासेऽथ जन्मभे ॥ ७॥ वराहः-जन्मोदये जन्मान तारकासु मासेऽथ वा जन्मदिनेऽथ भे वा । व्रतेन विप्रो न बहुश्रुतोऽपि विद्याविशेषैः प्रथितः पृथिव्याम् ॥ ८ ॥ भगु:-वेदार्थपालनपरः खलु जन्ममासे ऋक्षेऽथ जन्मान वहुक्रतुमान्वटः स्यात् । इति । विवाहेऽपि फलं तथा-जन्मभे जन्मलग्ने वा मासे वा तारकेऽह्नि वा । जन्मांशकेऽपि वोढायाः सुखमाहर्मनीश्वराः ॥९॥ वसिष्ठः-जन्मः जन्ममासे वा ऊढा कन्या पतिव्रता॥१०॥ भृगुःजन्ममासेऽथ जन्मः जन्मलग्नेऽथ जन्मनि । उद्वाहेषु च नारीणां प्रतिष्ठा महती भवेत ॥ ११॥ यवनः-जन्ममासेऽथ पुत्राढया धनाढया जन्मभोदये । जन्मभे वा भवेदूढा वृद्धा संततिवर्धिनी ॥ १२ ॥ भागुरि:-जन्मोदये जन्मानि तारकासु मासे तथा जन्मनि जन्मभे वा । ऊढाऽङ्गना नैकविधानि धत्ते सौख्यानि भोगं खलु बान्धवानाम् ॥ १३ ॥ अतो बहुवाक्यपर्यालोचनया ज्येष्ठापत्यस्यैव जन्ममासादिवर्जनमुक्तम् । अत एव नारदः-न जन्ममासे जन्मः न जन्मदिवसेऽपि च । नाऽऽद्यगर्भसुतस्याथ दुहितुर्वा करग्रहः ॥ १४ ॥ माण्डव्यःज्येष्ठे ज्येष्ठस्य गर्भस्य मासं चान्द्रं परित्यजेत् । दर्शावसानमखिलं सर्वमङ्गलकर्मसु ॥ १५ ॥ ज्येष्ठे न ज्येष्ठयोः कार्य ननार्योः पाणिपीडनम् । तयोरेकतरे ज्येष्ठे ज्येष्ठमासेऽपि कारयेत् ॥ १६ ॥ विवाहे स्थूलसूक्ष्माभ्यां जन्मज्ञे यदि जायते । तत्त्याज्यं यदि चेद्भिन्नं तज्जन्मर्के शुभावहम् ॥ १७ ॥
इति जन्मनक्षत्रविचारः।
अथ सिद्धान्तमीमांसाध्यायः । ज्योतिर्विवरणे- श्रौतस्मानि कर्माणि पुराणोक्तानि यानि च । ज्योतिपोक्ते स्फुटे काले कुर्युस्तत्फलकाक्षिणः ॥ १॥ विवाहे जातके प्रश्ने यात्रा
. १ ख. घ. 'निव प्रा। + इतः परं त्रयोदशश्लोकपर्यन्त ग्रन्थो घ. पुस्तके नाऽस्ति ।
Aho! Shrutgyanam