________________
१००
श्रीशिवराजविनिर्मितो
विद्याभ्यासे बुधर्क्ष च विवाहे गुरुभं स्मृतम् । शुक्रयुग्भं प्रयाणे च दीक्षायां शनिभं बुधैः ॥ ८ ॥
इति नामविचारः ।
अथ जन्ममासादीनां निर्णयः ।
श्रीपति:- जन्ममासि न च जन्मथे तथा नैव जन्मदिवसेऽपि कारयेत् । आद्यगर्भदुहितुः सुतस्य वा ज्येष्ठमासि न तु जातु मङ्गलम् ॥ १ ॥ शार्ङ्गधरः – जन्मर्क्षे सति दारिद्र्यं वैरं जन्मतिथावपि । जन्ममासे च दौर्भाग्यं जन्मलग्नं शुभावहम् ॥ २ ॥ ज्योतिष्प्रकाशे-केचिच्चान्द्रं वर्जयन्ति जन्ममासं महर्षयः । मङ्गले सावन केचित्सौरमासं तु केचन ॥ ३ ॥ दर्शान्तो वैदिको मासो राकान्तः स्मार्त उच्यते । पौराणो हरिघस्राद्यः सौर उत्पत्तिपूर्वकः ॥ ४ ॥ तत्तत्कर्मणि स एव 1 पासो ग्राह्यः ।
अथ व्यवस्थाविकल्पः ।
दोषापवादे -- तपतीकृष्णयोर्मध्ये मासान्द्रः प्रकीर्तितः । कृष्णाया दक्षिणे तीरे जन्मतो जन्ममासकः ॥ १ ॥ अन्येषु सर्वदेशेषु सौरो व्रतविवाहयोः । अन्नाशादिषु सर्वत्र ग्राह्यो मासस्तु जन्मतः || २ || अर्धभोगजन्मभे विवाहकर्म शर्मदम् । मध्यदेशयाम्ययोर्जगाद बादरायणः ॥ ३ ॥
अथ जन्ममासप्रवृत्तिः ।
गृहकौमुद्यां - जन्ममासि विपरीतपक्षके वासरे दिननिशोर्विपर्यये । जन्मभ दलपर्यये तथा मङ्गलानि सकलानि कारयेत् || १ || भोजमार्तण्डे - जन्म - मासि तियाँ भे च विपरीतदले सति । कार्ये मङ्गलमित्याहुर्गर्गभार्गवशीनकाः || २ || जन्ममासि निषेधेऽपि दिनानि दश वर्जयेत् । आरभ्य जन्मदिवसाच्छुभाः स्युस्तिथयः परे || ३ || संकीर्णत्वेऽपि कालस्य जन्ममासाद्युपस्थिते ( तौ ) । सद्यो विधाय तत्पूजां शुभं कुर्यादशङ्कितः ॥ ४ ॥ अथ जन्मनक्षत्रविचारः ।
जन्मनक्षत्रगश्चन्द्रः प्रशस्तः सर्वकर्मसु । क्षौरभेषजउद्वाहकर्तनेषु च तं त्यजेत् ॥ १ ॥ ज्योतिष्प्रकाशे - जन्मभं कृषिनृपाभिषेचने भूषणे नगरगेहकर्मणि । आधिपत्यभुजि मौञ्जिबन्धने पुंविवाह उदितं शुभं बुधैः ॥ २ ॥
१ ख च यः । रत्नमालायां – जन्म° ।
Aho! Shrutgyanam