SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निबन्धः । ९९ T पकैः । नत्यर्धजपमालार्कस्नानैः सूर्य व्रतैर्यजेत् ॥ २ ॥ तत्र भाण्डमन्त्रः -रविसंक्रमसंभूते संक्रान्ते पापहारिणि । नमस्ते सवितुः प्रतियै भाण्डानि प्रददाम्यहम् ॥ ३ ॥ इति सूर्य संक्रान्तिनिर्णयः । अथ जन्मराशिनिर्णयः । विवाहे सर्वमाङ्गल्ये यात्रादौ ग्रहगोचरे । जन्मराशेः प्रधानत्वं नामराशिं नः चिन्तयेत् ॥ १ ॥ देशे ग्रामे ग्रहे युद्धे सेवायां व्यवहारके | नामराशेः प्रधानत्वं जन्मराशिं न चिन्तयेत् || २ || काकिण्यां वर्गशुद्धौ च वादे द्यूते ज्वरोदये । मन्त्रे पुनर्भूवरणे नामराशेः प्रधानता ॥ ३ ॥ राजमार्तण्डः – विवाहघटनं चैव लग्नजं ग्रहजे फलम् । नामभाच्चिन्तयेत्सर्वं जन्म न ज्ञायते यदा ॥ ४ ॥ दीपिकायां - जन्म न ज्ञायते येषां तेषां नाम्नो गवेष्यते । चक्रेऽवकहडे भांशे तन्नाडी कैश्चिदग्निभात् ॥ ५ ॥ यदा स्त्रीजन्मसंपत्तिर्वरजन्म न लभ्यते । स्त्रियाः.. स्याज्जन्मतः शुद्धिर्नाम्नो मेलक्रिया तदा ॥ ६ ॥ पटलसारे - जन्मज्ञानेऽपि चैकस्य .. द्वयोर्नाम्नोर्भमेलकः । चिन्त्यस्तत्रैव जन्मक्षद्वीक्ष्यं लग्नेन्दुजं बलम् ॥ ७ ॥ इति जन्मराशिनिर्णयः । अथ नामविचारः । स्वरशास्त्रे - प्रसुप्तो येन जागर्ति येनाऽऽगच्छति शब्दितः । तन्नान्नथाssदिमो वर्णो ग्राह्यस्तस्माद्भनिर्णयः ॥ १ ॥ न प्रोक्ता ङञणा वर्णां नामादौ सन्ति ते नहि । चेद्भवन्ति तथा ज्ञेया गजडास्ते यथाक्रमम् ॥ २ ॥ खषौ सशौ aaौ चैव ज्ञेयाविति परस्परम् । संयोगाक्षरजे नाम्नि ग्राह्यं तत्राऽऽदिमाक्षरम् ॥३॥ बहूनि यस्य नामानि नरस्य स्युः कथंचन । तस्य पश्चाद्भवं नाम ग्राह्यं स्वरविशारदैः || ४ || यवनमतं-- यत्र स्थितः शीतकरों नराणां स्याज्जन्मराशिं तमुदाहरन्ति । यथायथा येषु खगा विलग्नाः स्थिता न ते सप्त कुतो भवन्ति ॥ ५ ॥ अतोऽष्टराशिर्मनुजोऽत्र सर्वः प्रोक्तानि तेभ्यश्च शुभाशुभानि । फलानि तेषां तु वियोगयोगाद्यदष्टवर्गोत्थफलं स्फुटं स्यात् || ६ || भौमादौ लग्नभं योज्यं राजकार्येऽर्कभं तथा। चन्द्रभं सर्वकार्येषु सङ्ग्रामादौ च भौमभम् ॥ ७ ॥ १. क. 'तैर्व्रजे ' । २ ख. व. शार्ङ्गवरः । ३ क. 'वाघ' । Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy