SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निबन्धः। अथ संकटे प्रवृत्तिमाह। वृद्धगर्गः-वृत्रशत्रुसचिवेऽपि सिंहगे मेषगे च तपने करग्रहम् । या लभेत भवतीह साऽबला सौख्यमेति सुभगत्वमक्षयम् ॥ १ ॥ अन्यच्च-सिंहस्थे देवगुरौ मेषस्थे यदि भक्त्सहस्रांशुः । मङ्गलकार्यं कुर्यादिति नारदपराशरौ वदतः ॥ २ ॥ शौनकः---मेषस्थे दिवसकरे सिंहस्थे वज्रपाणिसचिवे च । यस्याः परिणयनमसौ साध्वी सुखसंपदोपेता ॥ ३ ॥ कारिकानिबन्धे-अतीव दुष्टे सुरराजपूज्ये सिंहस्थिते वा द्विजपुङ्गवानाम् । व्रतस्य बन्धः खलु मासि चैत्रे कृतश्चिरायुःसुखसंपदे स्यात् ॥ ४ ॥ मौजीपटले-जन्मभाडुष्टगे सिंहे नीचे वा शत्रुगे गुरौ । मौजीबन्धः शुभः प्रोक्तश्चैत्रे मीनगते रवी ॥ ५ ॥ ज्योतिर्विवरणे काश्यपः-हरिनीचारिभागेऽपि व्रतोद्वाहादि मङ्गलम् । न निषिद्धं यदि स्वोच्चे स्वभे वा संस्थितो गुरुः ॥ ६ ॥ भगुः-सिंहेऽपि भगदेवत्ये गुरौ पुत्रवती भवेत् । अत्यन्तं सुभगा साध्वी धनधान्यसमन्विता ॥ ७ ॥ सप्तर्षिपटले-मघां त्यक्त्वा यदा गच्छेत्फल्गुनी च बृहस्पतिः। पुत्रिणी धनिनी कन्या सौभाग्यं सुखमेधते ॥ ८॥ इति सिंहस्थगुरुनिर्णयः। अथ संक्रान्तिनिर्णयः । सूर्ये घोरा विधौ ध्वाङ्क्षी भौमवारे महोदरी । बुधे मन्दाकिनी ज्ञेया मन्दाख्या देवमन्त्रिणि ॥ १ ॥ मिश्राभिधा कवेवारे राक्षसी स्यादिनात्मजे । केचिदाहुरिने ध्वाङ्क्षी घोराऽऽरेऽब्जे महोदरी ॥२॥ उग्रक्षिपचरैर्मित्रध्रुवमिश्राख्यदारुणैः । धिष्ण्यैः संक्रान्तिरर्कस्य घोराद्या क्रमशो भवेत् ॥३॥ घोरा सुखाय शूद्राणां विशां ध्वाङ्क्षी शुभप्रदा । महोदरौं च चोराणां राज्ञां मन्दाकिनी मता ॥ ४ ॥ विप्राणां शुभदा मन्दा पशूनां मिश्रका मुदे । चाण्डालशौण्डिकादिनां स्यादानन्दाय राक्षसी ॥ ५ ॥ पूर्वाह्ने पीडयेद्भूपान्मध्याह्ने तु द्विजोत्तमान् । विशोऽपराह्नेऽस्तमये शद्रानुषसि गोपकान् ॥ ६॥ तिनो हन्ति संध्यायां पिशाचान् रजनीमुखे । अर्धरात्रे रात्रिचरान्परतो नटनर्तकान् ॥ ७ ॥ दिवा चेन्मेषसंक्रान्तिरनर्धकलहप्रदा । रात्रौ सुभिक्षमतुलं संध्ययोदृष्टिरुत्तमा ॥ ८ ॥ मृगकर्काजगोमीनसंक्रान्तिर्निशि सौख्यदा । शेषेषु सप्तसु दिवा व्यत्ययादशुभं भवेत् ॥ ९ ॥ संक्रान्तिर्जायते यत्र भास्करे भूसुते शनौ । तत्र १ क. ख. कर्मादिगो । Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy