________________
श्रीशिवराजविनिर्मितोरादौ ये दोपाश्चोदिताः परैः। ते सर्वे नाशमायान्ति जीवशुक्रेक्षणोदये ॥२०॥ नारद:-गुरुरेकोऽपि केन्द्रस्थः सकलं दोपसंचयम् । विनाशयति धर्माशुरुदितस्तिमिरं यथा ॥ २१ ॥ एकोऽपि लग्नगः काव्यो गुरुवा यदि वा बुधः । नाशयत्यखिलान्दोषांस्तूलराशिमिवानलः ॥ २२ ॥ गुरुरेकोऽपि केन्द्रस्थः शुक्रो वा यदि वा बुधः । दोषसंघं निहन्त्येव केसरीवेभसंहतिम् ॥ २३ ॥ नाशयत्यखिलान्दोपान्यत्रैकादशगो रविः । गङ्गायां स्नानतो भक्त्या सर्वपापमिवाचिरात् ॥ २४॥ लग्नलग्नांशनाथी द्वौ वाऽऽयगौ वापि केन्द्रगौ । राशि निहन्ति दोपाणामिन्धनानीव पावकः ॥ २५ ॥ उक्तानुक्ताश्च ये दोपास्तान्निहन्ति बली गुरुः । केन्द्रत्रिकोणगो वाऽपि शुक्रो विष्णुर्यथाऽसुरान् ॥ २६ ॥ बृहस्पति:लग्नाधिपो यदा केन्द्रे लग्नादुपचयेऽथवा । शुभो वाऽप्यथवा क्रूरस्तदा दोषा लयं ययुः ॥ २७ ॥ यस्य दोषस्य यः कर्ता स्ववर्गे स्वोच्चगोऽपि वा । शुभदृष्टः स एकस्थं दोपं संहरति स्फुटम् ॥ २८ ॥ नारदः-परित्यज्य महादोपाञ्शेषयोगुणदोपयोः । गुणाधिकः स्वल्पदोपः सकलो मङ्गलप्रदः ॥ २९ ॥ दोपो न प्रभवत्येको गुणानां परिसंचये । एको यथा तोयविन्दुरुदर्चिषि हुताशने ॥३०॥ एवं संचिन्त्य गणितशास्त्रोक्तं लग्नमानयेत् । तल्लनं जलयन्त्रेण दद्याज्यौतिषिकोत्तमः ॥ ३१॥
इत्युक्तानुक्तदोपापवादः।
अथ दोषापवादाङ्गः। सामान्येनोदिता दोषा भङ्गास्तेषां तु तद्विदैः । यदि ते बलहीनाश्चेत्यध्वंसाभावतां ययुः ॥ १॥ जन्माज्जन्मलग्नादपवादकरो ग्रहः । तत्काले यदि दुस्थाने दोपभङ्गलमो न सः ॥ २ ॥
इति श्रीज्योतिर्निवन्धे दोषापवादाध्यायः ।
अथ मोठ्यादिविचारः । वृत्तशते-बालः शुक्रो दिवसदशकं पञ्चकं चैव वृद्धः पश्चादह्नां त्रितयमुदितः पक्षमैन्यां क्रमेण । जीवो वृद्धः शिशुरपि सदा पक्षमन्यः शिशु तो वृद्धौ प्रोक्तो दिवसदशकं चापरैः सप्तरात्रम् ॥ १॥ माण्डव्यः-त्यजेद्दशाहं शिशुवृद्धयोश्च सितेज्ययोश्चेति वदन्ति गर्गाः। कालांशतुल्यानि दिनादि चैके सप्ताहमन्ये त्वरे
१ व. बा : लमं पश्यति चेत्सयो योग ऽयं दोषनाशन ॥' ! २ क. न्तिगाग्र्याः ।
Aho! Shrutgyanam