________________
ज्योतिर्निबन्धः ।
अथोक्तानुक्तदोषाणामपवादः ।
नारद:-अनुक्ताः स्वल्पदोषाः स्युर्विद्युन्नीहारवृष्टयः । प्रत्यर्कपरिवेषेन्द्रचापाबुरगर्जनाः || १ || लत्तोपग्रहपाताख्या मासद्ग्धादया तिथिः । दग्धलग्नान्धबधिरपगुसंज्ञाश्च राशयः ॥ २ ॥ एवमाद्या यतस्तेषां व्यवस्था क्रियतेऽधुना । अकालजा भवन्त्येता विद्युन्नीहारवृष्टयः || ३ || प्रत्यर्क परिवेषेन्द्रचापाभ्रध्वनयो यदि । दोषाय मङ्गले नूनमदोषायैव कालजाः ॥ ४ ॥ सौराष्ट्रशाल्वदेशेषु पतितं भमुपग्रहम् । बाह्लिके कुरुदेशे चान्यस्मिन्देशे न दूषणम् ॥ ५ ॥ तिथयो मासद्ग्धाख्या दग्धलग्नानि तान्यपि । मध्यदेशे विवर्ज्यानि न दुष्याणीतरेषु तु || ६ || पङ्ग्वन्धकाणलग्नानि मासशून्याश्च राशयः । गौडमागधयोस्त्याज्या अन्यदेशे न गर्हिताः || ७ || माण्डव्य:- ये दोषा ग्रहयोगदृष्टिजनिता ये मासपक्षोद्भवा ये जामित्रमुहूर्तवारविहिता येऽकीकिवक्रः कृताः । ये चैव ग्रहलत्तयैव विहिता ये दुष्टत्तोत्थितास्वान्हत्वा शुभदौ सुरासुरगुरू केन्द्र त्रिकोणस्थितौ ॥ ८ ॥ लग्नांशदोषा ग्रहजातदोषा वर्गोद्भवास्तिथ्युडुयोगजाताः । केन्द्रत्रिकोणेषु सितज्ञजीवैर्नश्यन्ति सिंहैरिव नागयूथम् ॥ ९ ॥ उल्कानिपातपरिवेषशिवाशनीनां विद्युद्विकालघनगर्जितदुर्दिनानाम् । नीहारवृष्टिकुचलप्रतिभास्कराणां दोषो विनश्यति सितेज्ययुते विलग्ने || १० || उत्पातपातपरिघप्रतिसूर्यविम्वोत्थाकालष्टिघनगर्जितमारुतानि । दिग्धूमदाहपरिवेषकुकम्पचापदोषाः क्षयं ययुरमर्त्यगुरौ विलग्ने ॥ ११ ॥ वसिष्ठः - ये लग्नदोषाः कुनवांशदोषाः पापैः कृता दृष्टिनिपातदोषाः | लग्ने गुरुस्तान्विमली करोति फलं यथाऽम्भः कतकद्रुमस्य ॥ १२ ॥ नक्षत्रदोषं कुनवांशदोषं गण्डान्तदोषं पञ्चमुहूर्तदोषम् । विरुद्धपञ्चांशविलग्नदोषं निशाकरो लाभगतो निहन्ति १३ ॥ लः - लग्ने गुरुः सौम्ययुगीक्षितो वा लग्नाधिपो लाभगतो यथा स्यात् । कालाख्यहोरा तु यदा शुभा चेद्भवेच दोपस्य तदा हि भङ्गः ॥ १४ ॥ बृहस्पतिः - गुरुः सर्वगुणोपेतो लग्नात्केन्द्रे स्ववर्गगः । दोषाणां लक्षहन्ता स्याल्लग्नस्थः सर्वदोपहा ।। १५ ।। शुक्रो दशसहस्राणि बुधो दशशतानि च । लक्षमेकं च दोषाणां गुरुः केन्द्रे व्यपोहति ॥ १५॥ केन्द्रगो वा त्रिकोणे वा ज्ञो वा शुक्रोऽथवा गुरुः । सर्वदोपान्हरत्येव पापं विष्णोः स्मृतिर्यथा || १७ || स्वोच्चे स्ववर्गे सद्भावे शुभः पापोऽपि वा भवेत् । उदितो दोपविच्छेत्ता हरिरेको यथा गजान् ॥ १८ ॥ आग्नेयाख्यगृहेष्वेको विक्रमायारिगो वली | स्वतुङ्गङ्गः स्ववर्गस्थो दोपसंयविनाशनः ।। १९ ।। तिथिभग्रहवा
१ ख. "घुपाति" ।
Aho! Shrutgyanam
७९