________________
७६
श्रीशिवराजविनिर्मितोदुग्धवत् ॥ १ ॥ ग्रहणोत्पातभं त्याज्यं मङ्गलेषु ऋतुत्रयम् । यावच्च रविणा भुक्त्वा मुक्तभं दग्धकाष्ठवत् ॥ २ ॥ एतत्सर्वं नक्षत्रप्रकरणस्थं ज्ञेयम् । .
अथ कुनवांशः ।। तुलामिथुनकन्यांशा धनुरन्त्यार्धसंयुताः । एते नवांशाः शुभदा यदि नान्त्यांशकाः खलु ॥ १॥ अन्त्यांशास्तेऽपि शुभदा यदि वर्गोत्तमाह्वयाः। अन्ये नवांशा न ग्राह्या यतस्ते कुनवांशकाः ॥ २ ॥ कुनवांशकलग्नं यत्त्याज्यं सर्वगुणान्वितम् । एते. नवांशा विवाहे । यस्मिन्यस्मिन्कार्ये ये नवांशा उक्तास्तेभ्योऽन्ये तस्मिंस्तस्मिन्कार्ये कुनांशा इति ज्ञेयम् ।
अथ नवांशापवादः। लग्नदोपांशदोपा ये दोषाः पड़र्गजाश्च ये । हन्ति ताल्लँग्नगो जीवो मेघसंघभिवानिलः ॥१॥
अथ पातदोषनिर्णयः। संहिताप्रदीपे-ब्रह्मणोऽन्ते ध्रुवस्याऽऽदौ प्रायः पातस्य संभवः । स तु मङ्गलकार्याणि विनाशयति निश्चितम् ॥ १ ॥ भीमपरक्रमे-वैधतिव्यतिपातौ यौ क्रान्तिसाम्येऽर्कचन्द्रयोः । सत्कारम्भणं तत्र मरणं व्यसनं विदुः ॥२॥ मार्तण्डे --एष्यो धनं क्षपयति व्यतिपातयोगो मृत्यु ददाति नचिरादथ वर्तमानः । संतापशोकगदविनगदान्यतीतस्तरमादिनत्रयमपि प्रजहीत विद्वान् ॥३॥ संहिताप्रदीप-त्यजन्ति केचित्तिथिमृक्षमके वारं तथा पातविदुष्टमन्ये । माङ्गल्यकार्येषु न शोभनं स्यादिनत्रयं केचिदपि वन्ति ॥४॥ शार्ङ्गधरः-विश्प्रदग्धेन हतस्य पत्रिणा मृगस्य मांसं शुभदं क्षताहते । यथा तथैव व्यतिपातयोगे क्षणोऽत्र दृष्टो न तिथिने वारः ॥ ५॥ ज्योतिर्विवरणे-नो भं तिथिं च वारं च त्यजेत्पातविदूषितम् । त्यजेत्क्रान्त्यन्तरं यावत्तदोपस्तावदेव हि ॥६॥ ग्रहप्रदीपेमानक्यखण्डादयमान्तरेऽल्पे शुभानि कायाणि निहन्ति पातः । स्नाने जपे होमविधौ च दाने करोत्यनन्तं फलमेव कर्तुः ॥ ७॥
इति श्रीज्योतिर्निवन्ध एकविंशतिदोपाध्यायः ।
अथ भद्रपवादः। गर्ग:-क्रमायाताऽक्रमायाता भद्रा त्याज्या प्रयत्नतः । गुणस्नी भ्रंशदा यरमान गुणैरपि हन्यते ॥ १ ॥ तथाऽप्युत्मक कार्येषु पराधीनेषु संकटे । भद्रायां विपरीतायां न दोषः कार्यसाधने ॥ २ ॥ ब्रह्मयामले-दिवा भद्रा यदा
Aho! Shrutgyanam