________________
हरीतक्यादिनिघण्टुः भा. टी. ।
( ३१९ )
यत्सम्यग्धनतां यातं व्यक्तस्वादुरसं भवेत् । अव्यक्ताम्लरसं तत्तु स्वादु विज्ञैरुदाहृतम् ॥ ५ ॥ स्वादु स्यादत्यभिष्यंदि वृष्यं मेदःकफापहम् । वातनं मधुरं पाके रक्तपित्तप्रसादनम् || ६ || स्वाद्रम्लं सांद्रमधुरं कषायानुरसं भवेत् । स्वाद्वम्लस्य गुणा ज्ञेयाः सामान्यदधिवज्जनेः ॥७॥ यत्तिरोहितमाधुर्य्यं व्यक्ताम्लत्वं तदम्लकम् । अम्लं तु दीपनं पित्तरक्तश्लेष्मविवर्द्धनम् ॥ ८ ॥ तदत्यम्लं दन्तरोमहर्षकण्ठादिदाहकृत | अत्यम्लं दीपनं रक्तवातपित्तकरं परम् ॥ ९ ॥ गव्यं दधि विशेषेण स्वाद्वम्लं च रुचिप्रदम् । पवित्रं दीपनं हृद्यं पुष्टिकृत्पवनापहम् ॥ १० ॥ उक्तं दध्नामशेषाणां मध्ये गव्यं गुणाधिकम् । माहिषं दधि सुस्निग्धं श्लेष्मलं वातपित्तनुत् ॥ ११ ॥ स्वादुपाकमभिष्यंदि वृष्यं गुर्वस्रदूषकम् । आज दध्युष्णकं ग्राहि लघु दोषत्रयापहम् ॥ १२ ॥ शस्यते श्वासकासार्शः क्षयका श्यैषु दीपनम् । पक्कदुग्धभवं रुच्यं दधि स्निग्धगुणोत्तमम् ॥ १३॥ पित्तानिलापहं सर्वधात्वग्निबलवर्द्धनम् । असारं दधि संग्राहि शीतलं वातलं लघु ॥ १४ ॥ बिष्टभि दीपनं रुच्यं ग्रहणीरोगनाशनम् ।