________________
( ३१८ )
भाकप्रकाशनिघण्टुः भा. टी . ।
रसवाले दूधका त्याग कर देना चाहिये क्योंकि यह बुद्ध्यादिके
हरनेवाला है ॥ ४५ ॥
इति श्रीवैद्यरत्न - रामप्रसादात्मज विद्यालंकार - श्रीशिवशर्मा वैद्यशास्त्रकृत शिवप्रकाशिकाभाषायां हरीतक्यादिनिघण्टौ दुग्धवर्गः समाप्तः ॥ ११ ॥
दधिवर्गः १२ .
दधि
दध्युष्णं दीपनं स्निग्धं कषायानुरसं गुरु । पाकेम्लं श्वासपित्तास्रशोथ मेदः कफप्रदम् ॥ १ ॥ मूत्रकृच्छ्रे प्रतिश्याये शीतगे विषमज्वरे । अतिसारेऽरुचौ काश्यै शस्यते बलशुक्रकृत् ॥ २॥
दधि-गरम, दीपन, स्निग्ध, कषायानुरस, भारी पाक में अम्ल तथा श्वास, पित्त, रक्तविकार, शोप मेद और कफको करनेवाली है। मूत्रकृच्छ्र में, प्रतिश्याय में शीतयुक्त विषमज्वर में, अतिसार में, अरुचि में चौर कृशतामें दही अत्यन्त हितकारी तथा बल और वीर्यको बढानेशला है ॥ १५२ ॥
तद्भेदः । आदौ मन्दं ततः स्वादु स्वाद्वम्लं च ततः परम् । अम्लं चतुर्थमत्यम्लं पञ्चमं दधि पञ्चधा ॥ ३ ॥ मन्दं दुग्धवदव्यक्तरसं किंचिदङ्घनं भवेत् । मन्दं स्यात्सृष्ट विण्मूत्रदोषत्रयविदाहकृत् ॥ ४ ॥