________________
१आदिपर्व-६सर्गः] बालभारतम् ।
पुरा पुरारौ वरदे तपोभिदौर्भाग्यभाक् क्वापि मुनीन्द्रकन्या । पतिं प्रयच्छेति जगाद पञ्चवारं वरालाभवितीर्णरोषा ॥ ३ ॥ भवान्तरे पञ्च भवन्तु वीराः परस्परप्रीतिपरा वरास्ते । तदा प्रदायेति वरं वराङ्गयास्तस्यास्तिरोधत्त पुरां विरोधी ॥ ४ ॥ धवा भविष्यन्ति भवान्तरे मे ध्यात्वेति रेमे तपसैव सेयम् । आयुःक्षये पुण्यचयेन नाकश्रीरित्युपान्ते समभूद्भवस्य ॥ ५ ॥ इतश्च यज्ञं रचयांचकार प्राङ्गैमिषारण्यगतः कृतान्तः । अनिघ्नति प्राप्तकृपे तदस्मिन्मत्यैरमत्यैरिव भूरभूषि ॥ ६ ॥ बुडिष्यति क्षमाद्भुतमर्त्यभारा मत्र्येष्वमर्येष्वपि नो विशेषः । सुराः पुरस्कृत्य हरि विरिश्चौ खेदादुपालम्भमिति प्रतेनुः ॥ ७ ॥ अथावदत्पद्मभवो यदायं कर्ता मखान्तस्नपनं कृतान्तः । तदा निपातः क्रमतः प्रजानां पूर्णायुषां पक्कफलावलीवत् ॥ ८॥ निशम्य सम्यग्वचनं विरिञ्चरेवं प्रमोदेन गतः सुरेन्द्रः। सुरापगायां विलसन्नपश्यदब्देवतास्यद्युति हेमपद्मम् ॥९॥ इदं कुतो जातमिति प्रमोदादादातुमन्तःसलिलं विवेश । ततोऽग्रतस्तां रुदतीं ददर्श स्वर्गश्रियं भर्गकृतच्छलेन ॥ १० ॥ तदश्रुभिर्गाङ्गजले गलद्भिस्तूर्ण सुवर्णाम्बुरुहीभवद्भिः। चमत्कृतस्तावदिति बुभर्ता मेरैस्तदास्येन्दुपुरो विशेषात् ॥ ११ ॥ वरोरु किं रोदिषि कासि नाकभषेति पृष्टा रुदती चचाल । जगाम तत्तामनु वासवोऽपि प्रत्यूषसंध्यामिव शीतभानुः ॥ १२ ॥ गिरिगिरीन्द्रं हरिणीदृशेति नीतो युवानं किल वीक्ष्य कंचित् । स्थिरासने स्वप्रतिपत्तिमूढं स्त्रिया समं शारिरसं चुकोप ॥ १३ ॥ अनेन यूना कुपितो हरेण दृष्ट्या हतो दृग्विषभोगिनेव । हिमाद्रिमौलौ हरिराससाद स्तम्भीकृतो नूतनशृङ्गभङ्गिः॥ १४ ॥ समाप्तशारिव्यसनस्य विश्वनाथस्य वाग्भिस्त्रिदशश्रियाथ । करेण संस्पृष्टवपुः पपात शीर्णासनः स्तम्भ इव धुभा ॥ १५ ॥ १. 'वलद्भिः ख.
Aho! Shrutgyanam