________________
काव्यमाला ।
तेषां स्थिता शिरसि भोजसुता पदान्ते
कृष्णा च क्लृप्तसमरायुधशौर्यवाचाम् ॥ ११७ ॥ तेषां नृपोचितवचांसि निशम्य धृष्ट
द्युम्नः कुलालगृहसीमनि कुड्यगुप्तः । प्रातर्त्यवेदयदिति द्रुपदाय सर्व
सर्वसहापतिसुताः किल केचिदेते ॥ ११८ ॥ क्षत्राणि तानथ पुरोहितयोजनेन
निश्चित्य पाण्डुनृपनन्दनविभ्रमेण । आनीय सद्मनि रथैरथ भोजयित्वा
पृष्टो यथातथमुवाच युधिष्ठिरोऽमै ॥ ११९ ।। चण्डांशूज्ज्वलदुज्ज्वलोज्ज्वलमहःस्तोमाय सोमायित
क्रीडत्कीर्तिभराय वासवभुवे देया मुदेयं सुता । एवं जल्पति पार्षते निजगदे धर्मात्मनासौ प्रिया
पञ्चानामपि नो भविष्यति मनःश्रीरिन्द्रियाणामिव ॥ १२० ॥ पञ्चानामपि किमिव प्रिया भवित्री
मैत्पुत्री वदति च धर्मसूः किमित्थम् । संदेहाम्बुधिविधुरात्मवृत्तिरित्थं
वीरोऽपि द्रुपदनृपस्तदाप मौग्ध्यम् ॥ १२१ ॥ इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रविरचिते श्रीबालभारतनाम्नि महाकाव्ये वीराङ्के आदिपर्वणि द्रौपदीस्वयंवरो नाम पञ्चमः सर्गः ।
षष्ठः सर्गः । अन्तधुतानाममलेन धाम्ना बहिर्महाभारतजैर्यशोभिः । तमस्त्विषां येन तनुत्वगेव पदं ददे कृष्णमुनिर्मदेऽसौ ॥ १ ॥ अथ क्षितीशं द्रुपदं तदा किंकर्तव्यतामूढमुदूढचिन्तम् । उपेत्य क्लप्तप्रणति जगाद व्यासो रहः सर्वरहस्यवेदी ॥ २ ॥
१. 'पुत्री मे' ग.
Aho! Shrutgyanam