________________
१आदिपर्व-सर्गः]
बालभारतम् ।
वेगादमूर्नुपसमूहचमूर्विमूल्य __ भीमो जिगाय समरप्रसरेण शल्यम् । चापं तमेव युधि देवपतेः सुतोऽय
मासाद्य कर्णमपवर्णमथ व्यधत्त ॥ १११ ॥ नायं नयो भुजभृतामिति ते निकामं
दामोदरेण युधि तत्त्वविदा निषिद्धाः ।। जग्मुर्नृपा निजपदान्यथ तेऽपि पाण्डु
पुत्राः कुलालकुलसीनि समं कुमार्या ॥ ११२ ।। तानागतानथ जगाद पृथाद्य भिक्षा
भोज्यैव पञ्चभिरभेदपरैमिलित्वा । मा भूदसत्यवचना जननीति तेऽपि
पञ्चापि तत्परिणये समयं वितेनुः ॥ ११३ ॥ आलोक्य भूपतनयामथ किं मयोक्त
मित्याकुलां स्वजननी प्रतिबोध्य धीराः। स्नेहादुपेत्य हरिसीरियुगे प्रयाते
भिक्षार्थिनः पुरि गताश्च समागताश्च ॥ ११४ ॥ मातुः पुरस्तदनु धर्मसुतान्विताया
मिक्षां तदा निजनिजाममुचन्दिनान्ते । दृष्टापदो द्रुपदभूपसुता न ताप
मन्तस्तदाप किमु वच्मि मनः सतीनाम् ॥ ११५ ॥ कृत्वा बलिं द्विजजनाय वितीर्य भिक्षां
दत्वाथ याचककुलाय ततः कुलीनाः । कुन्तीगिरा द्रुपदसूरदितान्नमर्धं
भीमाय शेषमकरोन्मुदिता षडंशम् ॥ ११६ ॥ सुप्तास्ततो निशि भटा दिशि दक्षिणस्यां
कृत्वा शिरांसि कुशकल्पिततल्पभाजः ।
Aho! Shrutgyanam