________________
६४
काव्यमाला ।
राजन्यगर्वगिरिवज्ररवं चकार टंकारमिन्द्रतनुजोऽथ धनुर्गुणस्य ॥ १०४ ॥
रोगास्पदद्रुपदराजसुतावलोकपीयूषकन्दलितसान्द्रभुजाबलेन । पार्थेन पार्षतचमत्कृतविक्रमेण
वेध्यं व्यपाति भुवि मार्गणलीलयैव ॥ १०५ ॥ उत्तालतालतरलेषु तदा जनेषु
खे दुन्दुभिध्वनिपरेषु च दैवतेषु ।
कृष्णाननेषु च नृपेषु पितुर्गिराथ
कृष्णार्जुनस्य वरमाल्यमयुङ्क्त कण्ठे ॥ १०६ ॥ अस्मान्व्यडम्बयदसौ बटुमात्रकाय
पुत्रीं ददाविति तदा द्रुपदाय दूनाः ।
तत्र स्वयंवरसभाभुवि भूभुजंगाः
क्षोभास्पदं सपदि शस्त्रभृतोऽभ्यधावन् ॥ १०७ ॥ भीमार्जुनौ तदिह संनिहितौ हिताय तेनाश्रितौ हरिहराविव दुर्निरीक्षौ । उत्पाट्य पादपमुदारमदातिभीमो
भीमोऽथ पार्थिवचमूरुदमूलत्ताः ॥ १०८ ॥ हारानपि स्वकुसुमप्रतिमान्स्वकीय
शाखासमानपि भुजानसमञ्जसेऽस्मिन् ।
( युग्मम्)
मौलीनपि स्वफलजालसमान्नृपाणां
चिच्छेद भीमकलितः स तरुः क्रुधेव ॥ १०९ ॥ उर्वीरुहस्य कुसुमानि यशांसि राज्ञां
तस्य च्छदानि पुनराभरणानि तेषाम् ।
भीमाहवव्यतिकरे जगलुः सहैव
किंतु स्वयं निपतितो न स ते तु पेतुः ॥ ११० ॥
Aho ! Shrutgyanam