________________
१ आदिपर्व - १ सर्गः ]
बालभारतम् ।
रे' भूभुजो यदि भुजोल्लसितं न किंचि - af स्पृहानि सुतां प्रति पार्षतस्य ।
जज्ञे स्पृहाथ कथमागतमागतं वा
प्राणाधिके धनुषि तत्कथमाग्रहोऽभूत् ॥ ९८ ॥
आरम्भमेतमयथाबलमाकलय्य
युष्मान्न कोsपि निषिषेध मिषेण मन्त्री ।
चापाधिरोपणविधावपि निष्फलानां
वक्षोऽपि न स्फुटितमद्य भुजाभृतां वः ॥ ९९ ॥ कान्तापणेऽत्र गुरुभीष्महृदि त्रपैव कृष्णस्तु षोडशसहस्रवधूवशात्मा । रे कौरवा धृतभुजा मदगौरवाणां
किं वो मनःशमगुरुर्धनुरेतदेव ॥ १०० ॥ रे कर्ण कुण्डलित एष न किं त्वयापि चापः पृथुप्रथितदोर्युगपाशभाजा ।
किं दुर्यशः कुवलयेन तवावतंस
श्रद्धा बभूव भुवनावधि शाश्वतेन ॥ १०१ ॥ विप्रोऽप्ययं द्रुतमहीनमहीन कीर्तिलुण्ठाकशक्तिरपसादगुरुप्रसादः ।
वेध्यं प्रपातयति पश्यत रे नरेन्द्राः
कीर्ति स्मरन्मनसि गौररुचं न कृष्णाम् ॥ १०२ ॥ इत्यैब्दशब्दजयशालिनि तस्य वाक्ये -
satarयमेकमिव चेतसि चिन्तयत्सु ।
क्षत्रद्विजेषु निखिलेष्वपि तेषु सद्यो
मौनावलम्बिनि नमद्वदनाम्बुजेषु ॥ १०३ ॥
उग्रस्वधैर्यगजगर्जिनदं कुमारी
६३
चेतोमयूरनवनृत्तपयोदनादम् ।
१. 'भूमीभुजः' क. २. ' कुवलयं नीलोत्पलमिति राजनिघण्टुः' इति ग-पुस्तकटिप्पणी. ३. अब्दो मेघः.
Aho ! Shrutgyanam