________________
काव्यमाला।
अथावदद्विश्वगुरुः सुरेन्द्रमदेरिदं कंदरमाविश त्वम् । भवन्निभैरग्रगतैश्चतुर्भिः पञ्चेन्द्रियो वा गिरिरेष भातु ॥ १६ ॥ गतो गुहायामथ तैश्चतुर्भिः साकं स पाकस्य रिपुः सपीडः। . उपेत्य पादप्रणतः पुरारेः किं किं करोमीति जगाद दीनः ॥ १७ ॥ अथाह नाथः प्रथिता चिराय हत्या मम ब्रह्मशिरश्छिदोत्था । निवर्ततेऽष्टादशसंमितानामक्षौहिणीनां रुधिराणि पीत्वा ॥ १८ ॥ अतो यतन्तां निभृतं भवन्तो मल्लग्नहत्याशमनाय शकाः । कृतावतारैरवनी भवद्भिराभातु पञ्चाननकामिनीव ॥ १९ ॥ असौ रणारम्भविजृम्भितार्थ सार्थ नृपाणां प्रगुणीकरोतु । कृतावतारा भुवि नाकलक्ष्मीर्युष्मासु पञ्चवपि वल्लभैका ॥ २० ॥ इहावतारं विरचय्य देव्यां सा ब्रह्महत्या मम कापि कृत्या । भुजाभृतामलमधूनि पीत्वा तृप्ता मदान्मोक्ष्यति मां क्षणेन ॥ २१ ॥ तथेति निश्चित्य कृतप्रतिज्ञैरिन्दैश्चतुर्मिर्जगदे विभुस्तैः।। नरान्न कार्य ननु धर्मवातनासत्यतो जन्म विधीयतां नः ॥ २२ ॥ उवाच वाचं स च पञ्चमेन्द्रो नाहं करिष्ये वसुधावतारम् । पुमान्मदंशप्रभवोऽस्तु भूमौ भूरिप्रभावैर्भुवि कार्यहेतुः ।। २३ ॥ अथेति हत्याशमके समाप्तप्राये स्वकार्ये समदप्रमोदः। जगाद नाथो जगतामितीदमस्त्वेव विश्वे जयिनश्च यूयम् ॥ २४ ॥ किं त्वेतु वैवस्वतवासवस्य नरः सुतत्वं बदरीवनर्षिः। साहाय्यहेतोः सुहृदस्य भूमौ नारायणोऽप्यस्तु कृतावतारः ।। २५ ॥ स विश्वभुङ्काम किलान्तरस्य स्वायंभुवस्य त्रिदशाधिनाथः ।। युधिष्ठिराङ्गेन कृतावतारो धर्माङ्गजन्मा भुवनप्रियोऽभूत् ॥ २६ ॥ पतिः सुराणामृतधामनामा खारोचिषस्य स्वयमन्तरस्य । बभूव भीमाङ्गकृतावतारो वाताङ्गजोऽसौ गजसैन्यजेता ॥ २७ ॥ पुनस्तनूजोऽजनि वर्तमानवैवस्वताहान्तरसंभवस्य । सुरेशितुर्दुर्धरधन्वधारी तेजस्विनाम्नः स्वयमर्जुनोऽभूत् ॥ २८ ॥
Aho! Shrutgyanam