________________
१आदिपर्व-पसर्गः] बालभारतम् ।
मत्वा स्पृहामथ गुरोर्गुरुदक्षिणायां
जित्वा नियन्त्रितमदुर्दुपदं कुमाराः । तं चाह साहसरसेन हसन्विरोधं
मुक्त्वा कृपीपतिरवाप्तकृपः पुरस्तात् ॥ २१ ॥ प्राग्बालकेलिसुहृदा प्रतिपन्नमर्धे
लब्धस्य राज्यविभवस्य किल त्वया मे । आसाद्य तं द्रुपद यन्मदतो न्यकार्षी
रोषेण मां तदिदमद्य फलं तवाभूत् ॥ २२ ॥ मित्रं ममासि पितृमित्रसुतोऽसि तस्मा
दुक्तं स्वमेव परिपालय भूमिपाल । उक्त्वेति राज्यविषयार्धमपि प्रदाय
प्रैषीद्गुरुर्दुपदमाहतगुप्तवरम् ॥ २३ ॥ (त्रिभिर्विशेषकम्) तस्मिञ्जये पृषतपार्थिवनन्दनस्य
विश्वाधिकौ हरिसुतौ सततं विचिन्त्य ।। धर्माङ्ग जनितपौरजनानुरागं
मत्त्वा च कौरवपतिः पितरं जगाद ॥ २४ ॥ तात व तावककुलस्य कथापि पार्था
येनानुरञ्जितजनाश्च जेयोज्ज्वलाश्च । एतान्विवासय निवासय तत्र दूरे __ श्रीवारणावतपुरे छलजः कुतोऽपि ॥ २५ ॥ श्रुत्वेति सूनुवचनानि युधिष्ठिराय
तां वारणावतपुरीमदित प्रसादात् । एषा क्षितौ सुरपुरीव सुरैरिवैषा ___ लोकैर्वृतेति कथयन्नथ सर्वथान्धः ॥ २६ ॥ भावं विदन्भृशममुष्य महासहायं
मत्त्वा तदङ्गजगणं सहजद्विषन्तम् । १. भीमार्जुनौ. २. 'जयोल्बणाः' क. ३. 'विनाशय' इति क-पुस्तके टिप्पणीभूतः पाठः.
Aho! Shrutgyanam