________________
५२
काव्यमाला ।
नत्वा नृपः कृपकृपीपतिभीष्ममुख्याश्री वारणावतपुराय ततः प्रतस्थे ॥ २७ ॥ पौरान्विसृज्य सकलान्स कलाभिरामः
शिक्षाप्रदानविदुरं विदुरं च नत्वा । कुन्तीयुतः सह सहोदर मण्डलेन
तत्पत्तनं विदितहर्षपदं प्रपेदे ॥ २८ ॥ तन्नागसाह्वयमभूदपभूति तस्मिं
स्तद्वारणावतपुरं त्वतिभूति याते । यन्मुञ्चते दिनकरः किल तत्र रात्रि -
दीव्यति विभुर्दिवसो हि तत्र ॥ २९ ॥
कूटाशयेन सचिवेन पुरोचनेन प्राक्प्रेषितेन रिपुभिर्धृतराष्ट्रपुत्रैः । निर्मार्पितं जतुगृहं दहनैकयोग्यं
नीतश्छलेन दशमेऽह्नि पृथातनूजः ॥ ३० ॥ तन्मुञ्जसर्जरसयावकवंशकाश
सर्पिः शणप्रभृतिभिर्द्रविणैः प्रक्लृप्तम् । आग्नेयमेतदिति सद्म विभाव्य गन्धै
धर्माङ्गभूरिदमभाषत भीममुख्यान् ॥ ३१ ॥ शङ्कयं सदा हुतवहाच विषाच्च दिक्षु
युष्माकमस्त्यविदितो न च कोऽपि पन्थाः । शिक्षामिमामदित मे विदुरस्तदानी
मागच्छतः पथि वचोभिरमूढमूढैः ॥ ३२ ॥ शिक्षेयमद्य विदिता सदनेऽत्र नेत्रमार्ग गते हुतवहर्द्रविणैकक्कॢप्ते । मन्ये पुरोचनममुं च सुयोधनार्थे विश्वासघातिनमिति प्रथितप्रपञ्चम् ॥ ३३ ॥
१. 'प्रेरितेन' ख. २. 'द्रविणावकृप्ते' ग.
Aho ! Shrutgyanam