________________
काव्यमाला।
रङ्गाबहिर्बहु बभूव कुतोऽपि दोष्णो
रास्फालनध्वनिरथ ध्वनितान्तरिक्षः ॥ १४ ॥ मत्तद्विपेन्द्र इव सान्द्रमदः पुरस्ता
द्वेधावघट्टितपुरोजनदत्तवा । रङ्गेऽविशत्सहनकाञ्चनकर्णिकावा
कर्णस्ततः कवचवत्त्वचमेव बिभ्रत् ॥ १५ ॥ कोऽयं महाभट इति क्षितिपैरशेषै
रालोक्यमानवदनः सदनं मदस्य । द्रोणं कृपं च सपदि प्रणिपत्य पार्थ__स्पर्धी व्यधत्त सकलास्त्रकलाः किलासौ ॥ १६ ॥ इत्यर्जुनप्रतिभटाय भटाय तस्मै
चम्पां ददौ कुरुपतिः कृतसौहृदाय । अत्रान्तरे च नृपसारथिराजगाम
कर्णो नमाम तमतः पितृगौरवेण ॥ १७ ॥ दत्ता त्वया किमिव सूतसुताय चम्पा
लम्पाकपाकरिपुसूनुरिति ब्रुवाणः । भीमेन साकमथ चापमवाप्य कर्ण
दुर्योधनावपि धनुर्दधतुः क्रुधातौ ॥ १८ ॥ यावत्कुलक्षयकर कलयन्ति नाङ्के
शङ्काकुले सकलराजकुले कलिं ते ।। तेषां प्रतापदहनैरिव तप्तमूर्ति
स्तावत्पपात तपनोऽप्यपराम्बुराशौ ॥ १९ ॥ अग्रस्फुरनिजबलप्रबलप्रताप
श्रीभिस्तदस्ततमसो नवदीपिकाभिः । ते कौरवा गृहमगुर्मदगौरवाढ्या
स्ते पाण्डवाः कलितविक्रमताण्डवाश्च ॥ २० ॥ १. 'विघटित' ग. २. लम्पाको लम्पट इति ग-पुस्तकटिप्पणी.
Aho! Shrutgyanam