________________
काव्यमाला।
तद्रव्यमानजगदिष्टपुराणवाणी
गर्भाद्रलद्भिरमृतैरमृतांशुरासीत् ॥ १ ॥ विस्तारशालिनि कुमारकुलश्रमेक्षा
हेतोः कृती विदुरदर्शितभूमिभागे । भीष्मोऽन्यदा गुरुगिरा नगरस्य बाह्ये
प्रापञ्चयत्किमपि मञ्चकचक्रवालम् ॥ २ ॥ भीष्मादिकेषु धृतराष्ट्रपुरोगमेषु __भूपेषु भूरिषु विभूषितमञ्चकेषु । रङ्गं प्रविश्य गुरुरुज्ज्वलवेषधारी
पुत्रान्वितो बलिविधि विधिवद्यधत्त ॥ ३ ॥ नानाविधप्रहरणग्रहणप्रवीणा ___ वीणामृदङ्गपटहादिषु वादितेषु । पादाङ्गुलिस्थितनतोन्नतलोकदृष्टा
हृष्टास्ततोऽङ्कमविशन्वशिनः कुमाराः ।। ४ ॥ आज्ञां गुरोर्गुणगुरोरधिगम्य वीरा
धर्माङ्गजप्रभृतयोऽथ पृथुप्रभावाः । तत्रास्त्रविस्तृतिकलातनुलाघवानि
भूजानिमण्डलमुदे कलयांबभूवुः ॥ ५ ॥ उद्यद्गदौ कृतमदौ तदनु प्रवीरौ
वन्यद्विपाविव विकखरचण्डशुण्डौ । विक्षोभिताखिलसभौ रभसेन भीम
दुर्योधनौ निजमदर्शयतां विरोधम् ॥ ६ ॥ दुर्वारवैरघनयोरनयोरिदानी
क्षोभेण मा भवतु भेदभयं सभायाः । अन्तस्तयोर्गुरुगिरेति निरोद्धुमश्व
स्थाम्ना स्थितं गिरिवरेण गरीयसेव ॥ ७ ॥ १. 'गद्यमान' ग. २. 'स्थिति' ग.
Aho! Shrutgyanam