________________
४७
१आदिपर्व-५सर्गः]
बालभारतम् । । अर्जुनं च स्वपुत्रं च वविद्याभारधारणे । वामदक्षिणधौरेयौ मेनेऽसौ मनसा गुरुः ॥ २२७ ॥ भीमोऽभवद्गदायुद्धे धुर्यो दुर्योधनस्तथा । कृपाणे नकुलोऽश्वेषु सहदेवयुधिष्ठिरौ ॥ २२८ ।। आगच्छदेकदा द्रोणमेकलव्यो निषादराट् । अस्त्राभ्यासमतिर्दास इत्यनेन न्यषेधि च ॥ २२९ ॥ व्यावृत्तोऽथ गुरुं कृत्वा मृन्मयं चिन्मयाशयः । चापाभ्यासं चकारासौ जातश्च धुरि धन्विनाम् ॥ २३० ।। द्रोणशिष्यगणोऽन्येधुरभ्यासाय वनं गतः । श्वानं खानविदीर्णास्यक्षिप्तसप्तेषुमैक्षत ॥ २३१ ॥ कस्येदं लाघवमिति ध्यात्वा तत्पदमार्गगाः । एकलव्यं व्यलोकन्त तेऽभ्यस्यन्तमिषुवजैः ॥ २३२ ॥ कस्त्वमित्येष तैः पृष्टो निजगाद निषादराट् । हिरण्यधन्वा तातो मे द्रोणो धनुषि मे गुरुः ।। २३३ ॥ द्रोणोऽथ ज्ञाततद्वृत्तः स मा भूदधिकोऽर्जुनात् । इति तद्दक्षिणाङ्गुष्ठं गुरुदक्षिणयाग्रहीत् ॥ २३४ ॥ लक्षीकृते तरुस्थायिभासपक्षिगलेऽन्यदा ।
दृष्टिमुष्टिलयात्पार्थः सर्वेभ्योऽधिकतां गतः ॥ २३५ ॥ स्नानं गाङ्गजले गुरुर्विरचन्नन्येधुरभिग्रहो
दनं ग्राहमहो शरैः क्षितवते प्रीतः पृथासूनवे । वीरः कोऽपि धनुर्धरो न भवतः कल्पोऽस्ति जल्पन्निदं
शस्त्रं ब्रह्मशिरोभिधानमसमद्वेषिप्रयोज्यं ददौ ॥ २३६ ॥ इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रसूरिविरचिते श्रीबालभारतनाम्नि महाकाव्ये वीराङ्के आदिपर्वणि पाण्डवकौरवसंभवो नाम चतुर्थः सर्गः ।
पश्चमः सर्गः। पाराशरो मुनिपतिः स मुदे हृदायं
लक्ष्मच्छलेन कलयन्हरशेखरोऽपि । १. 'अपि' क.
Aho! Shrutgyanam