________________
काव्यमाला ।
भरद्वाजमुने/जं घृताचीदर्शनच्युतम् । द्रोणान्तर्निदधे द्रोणस्तेन सूनुः पुराभवत् ।। २१५ ॥ अवैदयं स्वयं वेदवेदाङ्गानि पितुः पठन् । शिवप्रत्तं भरद्वाजादस्त्रं चाशेषमग्रहीत् ॥ २१६ ॥ कृपी कृपस्वसारं स व्युवाह तदिहाभवत् । उच्चैःश्रवा इव नदन्नश्वत्थामेति नन्दनः ॥ २१७ ॥ भारद्वाजोऽथ वित्तार्थी स भार्गवममार्गयत् । निःस्वेनास्मै धनुर्वेदः सरहस्योऽमुना ददे ॥ २१८ ॥ द्रुपदन्यकृतेनाथ नगरे नागसाह्वये । वितन्वता महस्तेन सहस्तेनाश्रितः कृपः ॥ २१९ ॥ अविज्ञातः कृपेणासौ कुमारेभ्योऽन्तरान्तरा । नित्यं ददौ धनुर्विद्यामनवद्यां विदांवरः ।। २२० ॥ कूपेऽन्यदा कुमाराणां क्रीडतां कन्दुकश्श्युतः । ऐषीकैरन्वनुक्षेपविद्धैराकर्षि तेन सः ॥ २२१ ॥ कलामिति परिज्ञाय द्रोणाय तैटिनीसुतः । तनयानर्पयामास धनुरम्यासहेतवे ।। २२२ ॥
(अष्टभिः कुलकम्) नद्यां यः प्रापि सूतेन राधया पालितो मुदा । कुन्तीसूनुः स कानीनः कर्णोऽभ्यासमिह व्यधात् ॥ २२३ ॥ अभ्यास्यदिह वैश्याभूयुयुत्सुद्धृतराष्ट्रजः । भूरयोऽन्येऽपि भूपालाश्चक्रुर्वैदेशिकाः श्रमम् ॥ २२४ ॥ एकस्तेषु बभौ कर्णो नक्षत्रेष्विव चन्द्रमाः । अपि तस्मादशोभिष्ट दीप्त्या रविरिवार्जुनः ॥ २२५ ॥ चिन्तयन्कवलं ध्वान्तेऽप्यभ्यासाद्वगं नरः ।
अभ्यस्यन्नक्तमप्यासीच्छब्दवेधी गुरुप्रियः ॥ २२६ ।। १. 'आग्नेयम्' क. २. 'अपकृतेन' ख. ३. 'सुहृत्त्वेन' ग. सहस्तेन सामिना. ४. 'तटिनीजनिः' क. ५. 'कुन्तीसुतः' क.
Aho! Shrutgyanam