________________
आदिपर्व-४सर्गः] बालभारतम् ।
अन्धस्य धृतराष्ट्रस्य पुत्रान्पाण्डोम॑तस्य च । शतं च पञ्च चाभेदाद्भुनीसूनुरवीवृधत् ॥ २०३ ॥ प्राक्तपस्तप्यमानस्य तपोराशेः शरद्वतः । जानपद्यप्सरोदर्शाद्वीर्यमस्त्रं च विच्युतम् ॥ २०४ ॥ गतोऽन्यतो मुनौ तत्र प्राप शंतनुपार्थिवः । पुंस्त्रीशिशू शरद्वेधाभूततद्वीर्यसंभवौ ॥ २०५ ॥ कृपः कृपीति तौ ख्यातौ कृपया वर्धिताविव । धनुर्विद्यां कृपोऽशिक्षि नित्यमेत्य शरद्वता ॥ २०६ ॥ चापविद्याविदग्धस्य कृपस्येति धुनीसुतः । अभ्यासाय सुतानेतानर्पयामास दुःसहान् ॥ २०७ ।।
(चतुर्भिः कालापकम्) आस्फालयन्मियो मौलौ वृक्षारूढानपातयत् । पादे धृत्वा मुदाकर्षभीमः क्रीडासु कौरवान् ॥ २०८ ॥ गङ्गातीरेऽन्यदा क्रीडागृहं तैः कौरवैः कृतम् । हन्तुं छलवशाभीममतिभीमविरोधतः ॥ २०९ ॥ भीमो भोज्ये विषं दत्तं तैः शंभुरिव जीर्णवान् । सुप्तः क्षिप्तो लताबद्धः सिन्धोस्तल्पादिवोत्थितः ॥ २१० ॥ सुप्तः प्रमाणकोट्याख्ये भागीरथ्यास्तटे पुनः । कुरुसारथिना सपँरदश्यत वृकोदरः ॥ २११॥ प्रतिबुद्धस्ततः क्रुद्धः सर्पान्ददिकोदरः । क्रीडयापीडयच्चण्डसारः सारथिमप्यहन् ॥ २१२ ॥ इति हन्तुमशक्येऽस्मिञ्छलादपि बलादपि । अन्तःस्खलितशल्याभे लेभे दुःखं सुयोधनः ॥ २१३ ॥ इत्थं परस्परामर्षादुत्कर्षेण वितेनिरे ।
शस्त्राभ्यासं कृपाभ्यासे वीराः पञ्च शतं च ते ॥ २१४ ॥ १. 'सुतान्' क. २. 'गङ्गातटे' क-ख.
Aho ! Shrutgyanam