________________
४.४
काव्यमाला |
स्पर्धा वर्धयित्वामुं प्रमदोद्भासुराः सुराः । सद्योऽपि दिवमुत्पेतुः पातोत्पातितडित्त्वराः ॥ १९० ॥ मादी चाय नासत्यौ पृथाप्रथितमन्त्रतः । नकुलं सहदेवं च सुषुवे विश्रुतौ सुतौ ॥ १९९ ॥ द्विषद्य यमौ सत्त्वोतावेतावतिद्युती । भविष्यतः स्रुतौ सत्यं तदाभूदिति दिव्यगीः ॥ ९९२ ॥ स्फुरिता मूर्तिमन्तोऽमी खेलन्तो गन्धमादने । पञ्चाग्नय इव व्यक्तास्तपसेव तपखिनाम् ॥ १९३॥ अथैकदा मदाविष्टो वसन्ते पाण्डुपार्थिवः । उपांशु कामयन्माद्रीं प्राप शापफलं मुनेः ॥ १९४ ॥ प्रियमन्वेम्यहं त्वं तु पञ्चैतान्पालयात्मजान् । इत्युक्तिकलितां कुन्तीं ततो माद्रीत्यभाषत ॥ १९५ ॥ अतृप्त इव कामानां मन्मुखे निहितेक्षणः ।
प्रियः प्राप्तो दिवं तन्मां विना तस्य कुतः सुखम् ॥ १९६ ॥ प्राणेशमनुयास्यामि तदहं विरहासहा । पालनीयाविमौ किंतु सुतौ स्वसुतवत्त्वया ॥ १९७ ॥ इत्युक्त्वा साविशन्मादी परलोकशि प्रिये । वह्निं जगत्रयीने रवाविव जवाछविः ॥ १९८ ॥ ते' ततः शतशृङ्गाद्रितापसास्त्वापदां पदम् । त्रयोदशेऽहि भीष्मा निन्युः कुन्तीं सुतान्विताम् ॥ १९९ ॥ विज्ञातपाण्डुवृत्तान्तः प्रवृत्तान्तः शुचातुरः । भीष्मो जनैः सहाक्रन्दशब्दाद्वैतमवर्तयत् ॥ २०० ॥ दृग्भरस्रुच्छलादादौ चक्षुध्याय जलं ददौ ।
तस्मै स्पर्शैकयोग्याय कुटुम्बस्य करैस्ततः ॥ २०९ ॥ प्रथिते प्रेतकार्येऽथे तस्य सत्यवती तदा । सवधूका तपो भेजे व्यासोक्तेर्दुःखमागता || २०२ ॥
१. 'शतशृङ्गतपोराशेस्तापसास्ता पशालिनीम्' क. २. 'च' क- ख. ३. 'व्यासोक्ते दुःखमागमे' ग.
Aho ! Shrutgyanam