________________
१आदिपर्व-४सर्गः]..
बालभारतम् ।
कुन्ती पाण्डूपरोधेन दुर्वासोदत्तमन्त्रतः । निर्मला धर्ममाहूय तत्रासूत सुतं सती ॥ १७८ ॥ धर्मोऽयं मूर्तिमान्भावी नृपो नाम्ना युधिष्ठिरः । इत्यवोचत्तदा तस्मिञ्जातेऽम्बरसरस्वती ॥ १७९ ॥ ईडिशम्य तज्जन्म गान्धारी विधुरध्वनिः । गर्भादपातयद्धातैरपूर्णा पुत्रपेशिकाम् ॥ १८० ॥ व्यासादेशात्ततो राज्ञी सुतामेकां शतं सुतान् । सूक्ष्मान्पेशीथग्भूतान्घृतकुम्भेष्वजीवयत् ॥ १८१ ॥ इतः कुन्त्या पुनर्मन्त्रसंडूतान्मरुतस्ततः । भीमः सहनभीमश्रीरजायत गजायतः ॥ १८२ ॥ भ्रातृभक्तो बली शूरो दूरमेष भविष्यति । इत्यस्मिञ्जातमात्रेऽपि चचार व्योमभारती ॥ १८३ ॥ सोऽन्यदा व्याघ्रभीतायाः क्रोडान्मातुः पपात च । चूर्णीचकार च शिलां ख्यातो भीमाख्यया ततः ॥ १८४ ॥ जातोऽयं तनयो यस्मिन्नहि देहिमहा महान् । तस्मिन्नजनि पूर्णाङ्गो गान्धार्याः प्रथमोऽङ्गजः ॥ १८५ ॥ सम्यङ्मत्रसमाहूतात्पुरहूतादथो पृथा । तीव्रपाण्डतपस्तुष्टादसूत सुतमर्जुनम् ॥ १८६ ॥ बालस्यास्य मुखं वीक्ष्य निजवल्लभविभ्रमात् । प्रापुस्तदा दिवस्ताराः पुष्पवृष्टिच्छलादिलाम् ॥ १८७ ॥ तेजसा तस्य बालस्य निता इव दिवौकसः । तदाजग्मुर्महेन्द्राद्याः परितः स्फुरितोत्सवाः ॥ १८८ ॥ जयी नयी बली बालो रिपुजेम्बालभास्करः ।
भविष्यत्ययमित्यासीत्तदा गगनभारती ॥ १८९ ॥ १. 'सती सुतम्' ख. २. 'संजातेऽम्बरभारती' ग. ३. 'समुद्भूतान' ग. ४. पावकतेजाः , ५. पङ्क.
Aho! Shrutgyanam