________________
काव्यमाला।
उदूढा धृतराष्ट्रेण गान्धारी सुबलाङ्गजा । उग्राराधनलब्धोग्रशतपुत्रवरा वरा ॥ १४ ॥ विष्णोः पितामहः शूरः पितृष्वस्रयबन्धवे । प्राक्पुत्रीं कुन्तिभोजाय धर्मपुत्रीमदात्पृथाम् ॥ १४१ ॥ भोज्यादिभक्तितुष्टेन तस्यै दुर्वाससान्यदा। मन्त्रो ददे मुदाहूतदेवसंपर्कपुत्रदः ॥ १४२ ॥ अथाहूय रवि मत्रप्रत्ययाय कुमारिका । नन्दनं तत्प्रसादेनासूत कन्यैव चाभवत् ॥ १४३ ॥ बालं सहोत्थताडङ्कवज्रसंनाहमक्षिपत् । सा तं बन्धुतिया पेटोन्यस्तमाशु नदीजले ॥ १४४ ॥ चरित्रमषडक्षीणमित्यसौ बिभ्रती शुभम् । कन्या पाण्डुनरेन्द्रेण पर्यणायि स्वयंवरे ॥ १४५ ॥
(पञ्चभिः कुलकम्) परां पर्यणयन्माद्रीमद्रीश इव मेनकाम् । पाण्डुभूपः स्फुरद्रूपः संपदा विश्वविश्रुताम् ॥ १४६ ॥ द्युतिं दधार धाराभ्यामिवासिर्भूमिवासवः । ताभ्यां लक्ष्मीनटीनित्यनृत्यरङ्गेण रङ्गितः ॥ १४७ ॥ विदुरो देवकक्ष्मापसुतां पारशवी श्रुताम् । परिणीय परप्रेमा सुषुवे शतशः सुतान् ॥ १४८ ॥ एकदानेकदावाग्निप्रतापः पाण्डुभूपतिः । आखेटकविधानाय सुभटान्समनीनहत् ॥ १४९ ॥ वाताभयानलीलेषु नीलेषु ययुषु स्थिताः । नीलीचीरधरा वत्रुर्धराधीशं धनुर्धराः ॥ १५० ॥ पापद्धिवर्धितोत्साहाश्वेलर्मेचकरोचिषः ।
अशुभध्यानसंजातपातकैरिव वेष्टिताः ॥ १५१ ॥ १. 'सूरः पितृष्वस्रीय' क. २. 'पेटी' क. ३. अश्वेषु.
Aho! Shrutgyanam